काङ्ग्रेसदलं सैम पित्रौदाया: वचनेन सहमतं नास्ति, देशस्य प्रत्येकः नागरिकः सम्मानितः अस्ति- राजीवशुक्लः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य काङ्ग्रेसप्रभारी राजीवशुक्लः अवदत् यत् काङ्ग्रेसथलं सैमपित्रोदाया: वक्तव्येन सह सहमतं नास्ति। गुरुवासरे धर्मशालायां काङ्गरा-संसदीयक्षेत्रात् काङ्ग्रेसप्रत्याशी आनन्दशर्मा-महोदयस्य नामाङ्कनानन्तरं शुक्लः निजी-समाचार-संस्थायाः ए.एन.आई. इत्यनया सह कथितं यत् एतत् तस्य व्यक्तिगतं मतम् वर्तते। काङ्ग्रेसः सर्वथा स्पष्टः अस्ति यत् देशस्य जनः प्रत्येकः नागरिकः च सम्मानितः अस्ति, अस्माकं भारतस्य नागरिकश्च अस्ति। अधुना सैम पित्रौदा अपि तस्य स्वपदात् निष्कासितः अस्ति। अयं देशः पुष्पगुच्छः अस्ति यस्मिन् विविधाः जनाः निवसन्ति। इयमेव अस्माकं विशेषता, एतद् एव अस्माकं वैशिष्ट्यम् च। अत एव अहं न मन्ये यत् सैम पित्रौदा इत्यनेन एतादृशं वचनं कर्तव्यम् आसीत्।