Himsanskritnews : मुख्यवार्ता: – राष्ट्रीयान्ताराष्ट्रीया: प्रादेशिका: च
- विदेशमन्त्री डॉ. सुब्रह्मण्यम जयशंकरः नवदेहल्यां मालदीवदेशस्य विदेशमन्त्रिणा मूसाजमीरेण सह मिलितवान्। समागमे डॉ. जयशंकरः अवदत् यत् निकटप्रतिवेशिनत्वेन द्वयोः देशयोः सम्बन्धाः परस्परहितेन परस्परसंवेदनशीलतायाश्च सुदृढाः भविष्यन्ति।
- भारतीय- चिकित्सा- संशोधनपरिषद्- ICMR इत्यनेन २०२४ तमस्य वर्षस्य कृते आधुनिकभोजनानुरूपं भारतीयानाम् आहारस्य उन्नतीकरणाय मार्गदर्शिकाः प्रदत्ता:। हैदराबाद-नगरस्य राष्ट्रिय-पोषण-संस्थायाः शोधकर्तृभिः निर्मिताम् एतां मार्गदर्शिकां विशेषतया जनान् शारीरिकरूपेण सक्रियताम् आचरितुं परामर्श: दत्त:। नियमितव्यायामस्य, लवणस्य सेवनं सीमितं कर्तुं, उच्चवसा, शर्करा, अतिप्रसंस्कृतानि खाद्यानि न्यूनीकर्तुं, अतिवजनं च निवारयितुं पदानि ग्रहीतुं च अनुशंसति।
- उत्तराखण्डस्य विश्वप्रसिद्धकेदारनाथ, गंगोत्री, यमुनोत्री धामानां द्वारं श्वः आरभ्य भक्तानां कृते उद्घाटितं भविष्यति। अनेन सह राज्ये चारधाम यात्रा आरभ्यते। एतानि तीर्थकेन्द्राणि द्वारोद्घाटनस्य शुभ अवसरे पुष्पैः अलङ्कृतानि सन्ति। प्राप्तवार्तानुसारं अद्यावधि 22 लक्षाधिकाः भक्ताः चर्धामयात्रायाः कृते पञ्जीकरणं कृतवन्तः।
- राज्यपालः शिवप्रतापशुक्लः अवदत् यत् वर्तमानपरिप्रेक्ष्ये वर्तमानपरिस्थित्यानुसारं भारतीयसंस्कृतेः दर्शनस्य अवगमनस्य च आवश्यकता वर्तते। भारतं विश्वस्य अग्रभागे आनेतुम् अस्माभि: गौरवपूर्णसंस्कृतौ गर्वः कर्तव्यः। राज्यपालः गुरुवासरे महर्षिदयानन्दसरस्वती इत्यस्य २०० तमे जयन्त्युपलक्ष्ये भारतीय- उच्चाध्ययन- संस्थानम् शिमलाद्वारा आयोजिताया: त्रिदिवसीयाया: अन्ताराष्ट्रीया: संगोष्ठ्याः उद्घाटने मुख्यातिथिरूपेण सम्बोधनं कुर्वन् आसीत्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशस्य विक्रीताः विधायकाः कारागृहं गमिष्यन्ति। अन्वेषणं प्रचलति, तस्य समाप्तेः अनन्तरं महत् प्रकाशनं भविष्यति। तेषु केचन भूतस्करा:, मादकद्रव्यतस्करा:, केचन खनन-तस्करा: च अभवन्।
- हिमाचलप्रदेशस्य मण्डी संसदीयासनतः काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः, काङ्गड़ातः आनन्दशर्मा च गुरुवासरे नामांकनपत्रं कृतवन्तौ। विक्रमादित्यस्य नामांकने मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी राजीवशुक्ल:, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, पूर्वमंत्री कौलसिंहठाकुर: अन्ये च पदाधिकारिण: उपस्थिता आसन्।
- हिमाचलप्रदेशस्य काङ्ग्रेसप्रभारी राजीवशुक्लः अवदत् यत् काङ्ग्रेसथलं सैमपित्रोदाया: वक्तव्येन सह सहमतं नास्ति। गुरुवासरे धर्मशालायां काङ्गरा-संसदीयक्षेत्रात् काङ्ग्रेसप्रत्याशी आनन्दशर्मा-महोदयस्य नामाङ्कनानन्तरं शुक्लः निजी-समाचार-संस्थायाः ए.एन.आई. इत्यनया सह कथितं यत् एतत् तस्य व्यक्तिगतं मतम् वर्तते।