President Of India : राष्ट्रपतिः द्रौपदीमुर्मू संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत्
हिमसंस्कृतवार्ता- शिमला।
राष्ट्रपतिः द्रौपदीमुर्मू मंगलवासरे राजधान्या: प्रसिद्धेषु मन्दिरेषु दर्शनम् अकरोत्। राष्ट्रपतिः संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत्। तेन सह बजरंगबलीहनुमत: -मातु: तारायाः आरती अपि कृता । अस्मिन्नवसरे राज्यपाल: शिवप्रतापशुक्ल: अपि उपस्थित: आसीत्। राष्ट्रपतिः प्रातः ११:३० वादने संकटमोचनमन्दिरं प्राप्नोत्। सर्वप्रथमं षोडशगणेश: पूजित: । अत्र राष्ट्रपतिः गणपतिं प्रति पुष्पाणि अर्पितवती, चणकपिष्टस्य मोदकानि चार्पितानि। तदनन्तरं रामद्वारे प्रार्थना कृता। राष्ट्रपति द्रौपदीमुर्मू द्वारा भगवद्भ्यां राम-माता-सीताभ्यां फलानि अर्पितानि, संयाव: चार्पित:।
राष्ट्रपतिः हनुमते सिन्दूरं अर्पितवती, बदाणा-मिष्ठान्नम् चार्पितवती। हनुमत: आरार्तिक्यं कृत्वा राष्ट्रपतिः मन्दिराणां प्रदक्षिणाम् अकरोत् । प्रातः १२:२० वादने राष्ट्रपति मुर्मू तारादेवीमन्दिरे पूजां कृतवती। मन्दिरस्य पुरोहितः कमलेशचन्द्रः मातृदेव्याः कृते राष्ट्रपतिमहोदयाया: उपहारं अर्पितवान्। तदनन्तरं मन्त्रजपसहितं माता तारादेवीपूजनं कृतम् । तण्डुलपुष्पतिलकं वस्त्रं च मात्रे अर्पितम् । तदनन्तरं राष्ट्रपतिः मातु: भगवत्याः आरार्तिक्यं कृतवती। राष्ट्रपतिमहोदयायै मातु: वस्त्रं प्रसादं च दत्तम्।
नमस्कारं कृत्वा राष्ट्रपतिः मन्दिरे भोजनस्य प्रसादमपि स्वीकृतवती। मन्दिरप्रशासनेन राष्ट्रपतिमहोदयायै १३ विशेषव्यञ्जनानि सज्जीकृतानि आसन् । राष्ट्रपते: समूह: अपराह्ने १:३० वादने मन्दिरात् निर्गत:।
पारम्परिकवाद्ययन्त्रैः राष्ट्रपतिमहोदयाया: स्वागतं विहितम्
राष्ट्रपतिद्रौपदीमुर्मू महोदयाया: संकटमोचनमन्दिरे राज्यस्य पारम्परिकवाद्ययन्त्रैः स्वागतं विहितम्। मन्दिरपरिसरं ढक्काभि:, मृदङ्गै:,तुरहिभि:, करनलिकाभि:, रणभेरीभि: च इत्येतेषां ध्वनिभि: प्रतिध्वनितम् आसीत् ।
मन्दिरप्रशासनेन राष्ट्रपतिमहोदयाया: स्वागतार्थं ठियोगक्षेत्रस्य अष्टविशेषकलाकारानाम् एकं समूहं आहूतम् आसीत् ।
तारादेवीमंदिरस्य प्रतिकृति: एवं रामदरबारं चार्पितम्
राष्ट्रपतिद्रौपदीमुर्मू इत्यस्यै तारादेवीमन्दिरस्य प्रतिकृतिः दत्ता । इयं प्रतिकृतिः मन्दिरवत् काष्ठेन निर्मिता अस्ति । एडीसी शिमला अभिषेक वर्मा इत्यनेन इयं प्रतिकृतिः राष्ट्रपतिमहोदयां प्रति प्रदत्ता। सः राष्ट्रपतिं मन्दिरस्य इतिहासस्य विषये बोधितवान्। संकटमोचन मन्दिरे राष्ट्रपतिमहोदयायै रामदरबारस्य प्रतिमा प्रदत्ता। अपरजिल्लादण्डाधिकारी प्रोटोकॉल ज्योतिराणा राष्ट्रपतिं मन्दिरस्य इतिहासस्य विषये सूचितवती।
तारादेवीमन्दिरस्य सौन्दर्यं दृष्ट्वा राष्ट्रपतिः अभिभूता अभवत्।
राष्ट्रपतिः मुर्मू राजधान्या: प्रसिद्धस्य तारादेवीमन्दिरस्य मन्दिरस्य सौन्दर्यस्य प्रशंसाम् अकरोत् । मन्दिरसङ्कुलात् मन्दिरस्य, शिमलानगरस्य च सौन्दर्यं दृष्ट्वा राष्ट्रपतिः आनन्दिता अभवत् । मन्दिरसङ्कुलात् शिमलानगरस्य भिन्नं दृश्यं दृश्यते ।