Pong Dam: गोवातः न्यूनः नास्ति पौंगजलबन्धः- ओंकारशर्मा
हिमसंस्कृतवार्ता- कांगड़ा।
हिमाचलप्रदेशसर्वकारे राजस्वस्य अतिरिक्तमुख्यसचिवः ओंकारशर्मा मंगलवासरे पौंगजलबन्धस्य भ्रमणं कृतवान्। अनेनैव नूरपुरवृत्तस्य अन्तर्गतं प्रचलितानां जलशक्तिविभागस्य विभिन्नपरियोजनानां विषये अपि अधिकारिभ्यः सूचनां गृहीतवान्। अतिरिक्तमुख्यसचिवः ओंकारशर्मा अवदत् यत् पौंगजलबन्धः अपि पर्यटनस्थलात् गोवातः न्यूनः नास्ति। पौंग-जलबन्धस्य सौन्दर्यं पर्यटकानाम् आकर्षणं करोति। अतिरिक्तमुख्यसचिवः ओंकारशर्मा एकदिवसीयभ्रमणकाले पौंगजलबन्धं प्राप्तवान् आसीत्।
अवधेयं वर्तते यत् ओंकारशर्मा अतिरिक्तमुख्यसचिव: राजस्वं एवं वित्तीय-आयुक्तं राजस्वम् वर्तते। जनजातीयविकासस्य जलशक्तिविभागस्य च अतिरिक्तदायित्वमपि तस्य अस्ति। निर्वाचन-आयोगस्य अनुमोदनं प्राप्य ओंकारशर्मा इत्यस्मै गृहम् एवं सतर्कताविभागस्य दायित्वमपि प्रदत्तम् अस्ति।