BJP Himachal: अद्य नड्डा पन्नप्रमुखेभ्य: विजयस्य मन्त्रं दास्यति जगतप्रकाशनड्डा – रणधीरशर्मा
हिमसंस्कृतवार्ता- बिलासपुरम्।
लोकसभानिर्वाचनं दृष्ट्वा भाजपायाः पन्नाप्रमुखसम्मेलनस्य सज्जता अन्तिमपदे प्राप्ता अस्ति। भाजपादलस्य राष्ट्राध्यक्ष जेपीनड्डा ८ मई दिनाङ्के प्रस्ताविते जिलास्तरीयसम्मेलने प्रातः ९.३० वादने बिलासपुरस्य लुहनक्षेत्रस्य हॉकीक्रीडाङ्गणे मुख्यातिथिरूपेण भागं ग्रहीष्यति। हमीरपुरतः केन्द्रीयमन्त्री तथा भाजपाप्रत्याशी अनुरागठाकुरेण सहितं भाजपादलस्य वरिष्ठनेतारः अस्मिन्नवसरे उपस्थिता: भविष्यन्ति।
भाजपादलस्य प्रदेशमीडियाप्रभारी एवं नैनादेवीक्षेत्रस्य विधायक: अवदत् यत् बिलासपुरस्य सदरस्य विधायकः त्रिलोकजमवालः मुख्यतया जिलामुख्यालये आयोजयितुं सम्मेलनस्य सज्जतां सम्पादयति। सः क्षेत्र- ग्राम- केन्द्र- स्तरीयसभायाः माध्यमेन सम्मेलनस्य रूपरेखां सज्जीकरोति। गतदिवसे सम्मेलनस्थले सज्जतायाः अवलोकनेन सह कार्यकर्तृभ्यः आवश्यकमार्गदर्शिकाः अपि दत्ताः। रणधीरशर्मा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कुशलेन गतिशीलेन च नेतृत्वेन विगतदशवर्षेषु देशे सर्वतोमुखी विकासः दृष्टः। अस्मिन् काले समाजस्य प्रत्येकस्य वर्गस्य हिताय अनेकाः कल्याणकारी योजनाः अपि आरब्धाः सन्ति। ८ मई दिनाङ्के बिलासपुरे जिलास्तरीयस्य पन्नाप्रमुखसम्मेलनस्य आयोजनं क्रियते, यस्मिन् भाजपादलस्य राष्ट्रीयाध्यक्ष: जेपीनड्डा मुख्यातिथिरूपेण भागं ग्रहीष्यति। सः सम्मेलने भागं ग्रहीतुं प्रायः ११ सहस्राणां पन्नाप्रमुखानाम् मार्गदर्शनं कृत्वा विजयमन्त्रं दास्यति।