HPCM: ‘ईश्वर: सामान्यजनस्य सर्वकारम् उद्धारयत्, जयरामठाकुरः मुख्यमन्त्री भवितुं स्वप्न: पश्यन् आसीत्’
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
आपत्काले अपि भाजपा राजनीतिं कृतवती, परन्तु सामान्यजनस्य सर्वकारस्य पतनार्थं अश्वव्यापारिणः काङ्ग्रेसविधायकाः राज्यस्य राजनीतिं लज्जितवन्ता:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः त्रिदिवसीयस्य मतु: भंग्याणीदेव्या: मेलापकस्य समापनसमारोहे सभां सम्बोधयन् टिप्पणीं कृतवान्। अस्मिन् काले सः भाजपां घोररूपेण लक्ष्यं कृत्वा शिमला संसदीयक्षेत्रस्य सांसदः सुरेशकश्यपस्य विरुद्धं वाक्युद्धं कृतवान्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् विपक्षस्य नेता जयरामठाकुरः प्रावर: आप्रप्रदीनम् (कोट-पैन्ट) इति सज्जीकृत्य मुख्यमन्त्री भवितुं स्वप्नं पश्यन् आसीत् तथा च विद्रोही विधायकेभ्य: अपि प्रावर: आप्रप्रदीनम् इत्यादि सज्जीकृत्य राज्यसभानिर्वाचनानन्तरं प्रातःकाले राज्यपालनिवासस्थानं प्राप्तवन्तः मुख्यमन्त्री भवितुं स्वप्नः परन्तु ईश्वरः एकस्य सामान्यस्य सर्वकारस्य उद्धारं कृतवान्। सः अवदत् यत् राज्ये २२ सहस्रपरिवाराः अस्याः आपदायाः कारणात् प्रभाविताः, परन्तु भाजपा आपदि अपि राजनैतिकं रोटिकां निर्मितवती। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् सुरेशकश्यपः क्षेत्रात् सांसदः कृतः, परन्तु सः अपि एकवारं अपि संसदि क्षेत्रस्य आपदाप्रभावितजनानाम् स्वरं न उत्थापितवान्। सः अवदत् यत् प्रथमं भाजपया आपत्काले राज्याय आर्थिकसहायतां स्थगिता अधुना भाजपा निर्वाचन- आयोगस्य समीपं गत्वा महिलाभ्यः अधिकाररूपेण दत्तस्य १५०० रुप्यकाणां वृत्तिं स्थगितवती अस्ति। सः अवदत् यत् ये जनमतद्वारा आसन्दं प्राप्तुं न शक्तवन्तः, ते अद्य धनशक्त्या आसन्दं प्राप्तुम् इच्छन्ति।