SPU Mandi : १८ प्रवेशपरीक्षाणां समयसूची निर्धारिता, ९ जूनतः १९ पर्यन्तं भविष्यति परीक्षा:
हिमसंस्कृतवार्ता – लघ्वीकाशी मण्डी।
प्रथमवारं सरदारपटेलविश्वविद्यालयः, मण्डी स्वस्तरस्य १८ विषयेषु स्नातकोत्तर-(पीजी) प्रवेशपरीक्षां कर्तुं गच्छति। अस्य समयसूची प्रकाशिता अस्ति। विश्वविद्यालयेन प्रवेशपरीक्षासम्बद्धविस्तृतसूचनार्थं विवरणिका अपि प्रकाशिता अस्ति। अस्मिन् छात्राः स्वसंशयान् निवार्य आवेदनं कर्तुं शक्नुवन्ति। प्रवेशपरीक्षाः ९ जूनतः १९ जूनपर्यन्तं भविष्यन्ति। विश्वविद्यालयस्य पटलं मे ६ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं आवेदनार्थं उद्घाटितं भविष्यति। पटलै पञ्जीकरणं कृत्वा छात्राः प्रवेशपरीक्षायाः प्रपत्रं पूरयितुं शक्नुवन्ति। प्रवेशपरीक्षायाः कृते विश्वविद्यालयेन १० अधिकारिणां समिति: निर्मिता अस्ति। विश्वविद्यालयस्य प्रतिकुलपति प्रो. अनुपमासिंह अवदत् यत् केवलं वर्षद्वयस्य अल्पे काले एव सरदारपटेलविश्वविद्यालय: अनेका: बाधा: अतिक्रान्तवान्, अनेका: उपलब्धयः च प्राप्नोत्। अस्मिन् केन्द्रात् अद्यैव २० कोटिरूप्यकाणां अनुदानं प्राप्तम् अधुना प्रवेशपरीक्षाः अस्माकं स्वस्तरस्य एव करणीयाः सन्ति। सरदारपटेलविश्वविद्यालयस्य अधीनस्था: ४६ उपाधिमहाविद्यालया: १८ शिक्षामहाविद्यालया: त्रय: संस्कृतमहाविद्यालया: च सन्ति। मण्डी, कुल्लू, लाहौल-स्पीति: इत्येतेषां जनपदानाम् अतिरिक्तं अन्यजनपदानां छात्राः अपि प्रवेशपरीक्षायां भागं ग्रहीतुं शक्नुवन्ति ।
परीक्षा कार्यक्रमा:
- शिक्षास्नातक: (B.Ed)- ९ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-व्यापारिकप्रबन्धनम् (MBA)- १० जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-पर्यटनं एवं यात्राप्रबन्धनम् (MTTM) – १० जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तं पर्यन्तम्
- स्नातक-सङ्गणक-अनुप्रयोग: (BCA)- १४ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-सङ्गणक-अनुप्रयोग: (MCA)- १४ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातक-व्यापारिक-प्रबन्धनम् (BBA)- १४ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-उपाधि-सङ्कणकानुप्रयोग: (PGDCA)- १४ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर- आङ्गलम् (MA English) – १५ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर- हिन्दी (MA Hindi) – १५ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्,
- स्नातकोत्तर-जीवविज्ञानम् (MSc Zoology)- १७ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-गणितविज्ञानम् (MSc Mathematics)- १७ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-वनस्पतिविज्ञानम् (MSc Botany)- १७ जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तम्
- स्नातकोत्तर-वाणिज्यम् (M.Com.)- १७ जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तम्
- स्नातकोत्तर-रसायनशास्त्रम् (MSc Chemistry)- १७ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-राजनीतिविज्ञानम् (MA Pol. Sc.) – १९ जूनदिनांके ११:०० तः १:०० वादनपर्यन्तम्
- स्नातकोत्तर-भौतिकविज्ञानम्
(MSc Physics)- १९ जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तम्
- स्नातकोत्तर-इतिहासम् (MA History)- १९ जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तम्
- स्नातकोत्तर-अर्थशास्त्रम् (MA Economics)- १९ जूनदिनांके ३:०० तः ५:०० वादनपर्यन्तम्
प्रवेशप्रक्रिया जुलाईमासे सम्पन्ना भविष्यति
सरदारपटेलविश्वविद्यालयस्य प्रतिकुलपतिः अवदत् यत् जूनमासे प्रवेशपरीक्षां सम्पन्नां कृत्वा जुलैमासे प्रवेशप्रक्रिया सम्पन्ना भविष्यति। यूजीसी मार्गदर्शिकायाः कारणात् अस्मिन् समये प्रवेशप्रक्रिया जुलैमासे एव सम्पन्ना भविष्यति। विश्वविद्यालयस्य परीक्षाशाखा दृढा अस्ति। प्रो. अनुपमा उक्तवती यत् सर्वेषां पाठ्यक्रमाणां प्रवेशपरीक्षाशुल्कं हिमाचलप्रदेशविश्वविद्यालयसदृशमेव भविष्यति। परन्तु नियमानुसारं विशेषवर्गाणां शुल्के शिथिलता भविष्यति।