देशाय कार्यं करोमि न तु प्रधानमन्त्रिपदाय- नरेन्द्रमोदी
पश्चिमबङ्गस्य बीरभूममण्डलस्य अहमदपुरे गतदिवसे प्रधानमन्त्री तथा भारतीयजनतापक्षस्य वरिष्ठनेता नरेन्द्रमोदी निर्वाचनसभां सम्बोधितवान्। सः अवदत् यत् सः देशाय कार्यं करोति न तु प्रधानमन्त्रिपदस्य कृते। प्रधानमन्त्री मोदी इत्यनेन उक्तं यत् विगतदशवर्षेषु तस्य सर्वकारेण देशे बहवः चिकित्सामहाविद्यालयाः, सूचना-प्रौद्योगिकीसंस्थानानि (IITs,) अखिलभारतीय-आयुर्विज्ञानसंस्थानानि (AIIMS) च निर्मितानि। प्रधानमंत्रिणा मोदिना उक्तं यत् अधुना छात्राणां शिक्षायाः कृते विदेशं गन्तुं न प्रयोजनं भविष्यति। प्रधानमन्त्रिणा झारखण्डस्य पश्चिमसिंहभूमिमण्डले चायबासायां सभां सम्बोधयित्वा राज्ये निर्वाचनप्रचारस्य आरम्भः कृतः। श्री मोदी खुन्टी, सिंहभूमनिर्वाचनक्षेत्रेभ्यः एनडीए-अभ्यर्थीनां कृते अपि प्रचारं कृतवान् । अस्मिन् कालखण्डे मोदी झारखण्डे INDI-गठबन्धनस्य घटकदलानां दृढ़ाम् आलोचनां कृतवान् । सः अवदत् यत् भाजपा एव यस्य कारणेन झारखण्डराज्यं बिहारात् बहिः उत्कीर्णम् अभवत्। असौ अकथयत् यत् झारखण्ड-मुक्ति-मोर्चा तथा काङ्ग्रेसदलं आदिवासीजनानां त्यागस्य कदापि सम्मानं नैव कुर्वन्ति। झारखण्डस्य भूमिः आदिवासीक्रान्तिकारिणां भूमिः अस्ति, एषा भाजपादलमेव येन भगवान् बिरसामुण्डायाः जन्मदिवसस्य अपरं परिचयं दत्तम्। वयम् अस्य दिवसस्य जनजातीयगौरवदिवसम् इति आचरितुं आरब्धाः। भगवतः बिरसा मुण्डायाः स्तुतिः देशस्य प्रत्येकस्मिन् कोणे आरब्धा अस्ति।
तदनन्तरं मोदीमहोदयेन रांचीनगरे पथप्रदर्शनम् (रोड शो) अपि कृत्वा जनसमूहस्य समर्थनस्य आह्वानं कृतम्। प्रधानमन्त्री मोदी अद्य बिहारस्य दरभंगानगरे जनसभां सम्बोधयिष्यन्ति। दरभंगासनतः भाजपाया: गोपालजीठाकुरः स्पर्धायाम् अस्ति।
देशाय कार्यं करोमि न तु प्रधानमन्त्रिपदाय- नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment