Special Olympics Asia Pacific : विशेष-ओलम्पिक एशियायाः परामर्श-परिषदः अध्यक्षा जाता डॉ. मल्लिका नड्डा
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। स्पेशल-ओलम्पिक-भारणस्य अध्यक्षा डॉ. मल्लिकानड्डा इत्यनया अन्ताराष्ट्रीयस्तरस्य अपरं महत्त्वपूर्णं दायित्वं प्राप्तम् अस्ति। सा विशेष ओलम्पिक एशिया प्रशान्तक्रीडायाः परामर्शपरिषदः (APAC) अध्यक्षा कृता अस्ति। डॉ. मल्लिका नड्डा एशिया प्रशान्तक्षेत्रस्य ३५ देशानाम् प्रतिनिधित्वं करिष्यति। डॉ. मल्लिका नड्डा ३० वर्षाणाम् अधिकं कालात् दिव्याङ्गक्षेत्रे कार्यं कुर्वती अस्ति। १९९१ तमे वर्षे वर्तमानभाजपा राष्ट्रियाध्यक्षेण जगतप्रकाशनड्डा इत्यनेन सह विवाहं कृत्वा बिलासपुरे चेतनासंस्थायाः आधारः स्थापितः। इयं संस्था दिव्याङ्गजनैः सह युनां महिलासशक्तिकरणाय, व्यक्तित्वविकासाय च कार्यं करोति।
सम्प्रति चेतनासंस्थायां बालद्वयेन आरब्धे विशेषविद्यालये (दिवसपालनकेन्द्रे) बालकानां संख्या २०० प्राप्ता अस्ति। अधुना यावत् प्रायः १५०० दिव्याङ्गाः बालकाः अस्मात् विद्यालयात् शिक्षां प्रशिक्षणं च गृहीतवन्तः। तेषु प्रायः ५०० बालकाः विभिन्नक्षेत्रेषु कार्यं कुर्वन्ति। २००२ तमे वर्षे विशेष ओलम्पिकभारतहिमाचलप्रदेशस्य आरम्भं कृत्वा डॉ. मल्लिका नड्डा हिमक्रीडायाः, शीतकालीनक्रीडायाः च आयोजनद्वारा प्रथमवारं विश्व- ओलम्पिकशीतकालीनक्रीडायां दिव्याङ्गानाम् अवसरं प्रदत्तवती। डॉ. मल्लिका नड्डा २०२१ तमे वर्षे विशेष- ओलम्पिक- भारतस्य अध्यक्षस्य उत्तरदायित्वं स्वीकृतवती।