HP Politics: विक्रामादित्यस्य कङ्गनारणौतायै आह्वानं सेरी-मञ्चे मया सह मुक्त-विमर्शः कुर्यात्
हिमसंस्कृतवार्ता- मण्डी।
मण्डीतः काङ्ग्रेसस्य लोकसभा प्रत्याशी विक्रमादित्यसिंहः मण्डीत: भाजपाप्रत्याशिन्यै कंगनारणौतायै मुक्ततया वादविवादार्थं आह्वानं दत्तवान्। सः अवदत् यत् अहं भाजपाया: प्रत्याशिन: विषये किमपि वक्तव्यं दातुं न इच्छामि। अहं तेभ्यः केवलं पृच्छामि यत् वयं भवद्भिः सह दृष्ट्या, जनादेशेन, प्रतिबद्धनेतृत्वेन च सह संवादं कर्तुम् इच्छामः।
विक्रमादित्यसिंहः अवदत् यत् अहं कङ्गनारणौत इत्यस्याः अनुरोधं करोमि यत् सा मण्डी इत्यस्य सेरी-मञ्चे आगत्य मया सह मुक्त-विमर्शं करोतु, अहम् अस्माकं दृष्टिविषये, अस्माभिः किं कार्यं सम्पादितम् इति च वक्ष्यामि। आपत्काले वयं तत्रत्यानां जनानां समर्थनं कृतवन्तः। मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना मण्ड्यां प्रभावितपरिवारेभ्यः प्रायः १३ कोटिरूप्यकाणि दत्तानि। केन्द्रीयमन्त्रिभिः सह समन्वयं कृत्वा राज्याय वयं १५० कोटिरूप्यकाणां व्यवस्थां कृतवन्तः।
विक्रमादित्यसिंह: अकथयत्- पञ्चदशमासेषु कार्यं कृतम्
सः अपि अवदत् यत् १५ मासानां कार्यकाले वयं ३५०० कोटिरूप्यकाणां मार्गनिर्माणस्य उन्नयनस्य च कार्यं कृतवन्तः। अतः एतानि सर्वाणि वस्तूनि वादविवादे जनानां समक्षं स्थापितानि भविष्यन्ति। ध्यातव्यं वर्तते यत् भाजपा प्रत्याशी कङ्गनारणौत काङ्ग्रेसस्य प्रत्याशी विक्रमादित्यसिंहः च परस्परं ताडयितुं कोऽपि अवसरः न त्यजति। उभौ परस्परं वाचिकयुद्धं निरन्तरं कुर्वन्तौ स्तः।