कृषिपरिष्कारस्य जनसमस्याविभागस्य प्रतिनिधिमंडलं बांग्लादेशस्य त्रिदिवसीय भ्रमणे
कृषिपरिष्कारविभागस्य जनसमस्याविभागस्य च प्रतिनिधिमण्डलम् गतरविवासरात् बाङ्गलादेशस्य त्रिदिवसीययात्रायां वर्तते। प्रतिनिधिमण्डलं राष्ट्रियसुशासनकेन्द्रस्य बाङ्गलादेशस्य लोकप्रशासनमन्त्रालयस्य च मध्ये सन्धिविषये नवीकरणविषये चर्चां करिष्यति। प्रतिनिधिमण्डले भारतस्य प्रतिनिधित्वं लोकसमस्याविभागस्य सचिवः वी.श्रीनिवासः करिष्यति।द्वयोः देशयोः मध्ये क्षमतानिर्माणकार्यक्रमस्य कृते २०१४ तमे वर्षे सन्धिः अभवत् । अस्य अन्तर्गतं अद्यावधि ७१ क्षमतानिर्माणकार्यक्रमाः आयोजिताः सन्ति, बाङ्गलादेशस्य २७७५ वरिष्ठाधिकारिणः भारतस्य भ्रमणं कृतवन्तः ।
कृषिपरिष्कारस्य जनसमस्याविभागस्य प्रतिनिधिमंडलं बांग्लादेशस्य त्रिदिवसीय भ्रमणे
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment