SPU Mandi : इतिहासं संस्कृतिं च प्रति भवाम: जिज्ञासवः- विनोद बहल:
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा
इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडी इत्यनेन शोधसंवादकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमे मुख्यवक्तारूपेण विनोदबहल: उपस्थित: आसीत्। सः स्नातकोत्तरचतुर्थसत्रस्य छात्रान् मंडीप्रांतस्य इतिहास- संस्कृतिविषये च सविस्तरं बोधितवान्। शोधसंवादकार्यक्रमस्य प्रथमचक्रे सः मंड्या: ऐतिहासिकस्रोतविषये ज्ञानं दत्तवान्। तेनोक्तं यत् छात्रा: स्वसभ्यतां, संस्कृतिम्, इतिहासं च तथ्यसहितं समाजस्य समक्षं स्थापयेयु:। संदर्भेऽस्मिन् प्रतिकुलपति: आचार्या अनुपमासिंह: उक्तवती यत् छात्रै: प्राथमिकस्रोताधारेण ज्ञानम् एकत्रीकृत्य शोधकार्यं करणीयम्। कार्यक्रमस्य अध्यक्षता इतिहासविभागस्य प्रभारी डॉ. राकेश कुमार शर्मा अकरोत्। सः कार्यक्रमस्य उद्देश्यान् बोधितवान्, सर्वेषां च स्वागतं अकरोत्। अस्मिन्नवसरे इतिहासविभागस्य छात्रा: गीता देवी, यशपाल:, रवीना, खुशबू, अनीश:, गौरवकुमारसहितम् अनेकविद्यार्थिनः संवादमपि अकुर्वन्। कार्यक्रम- आयोजनसचिव: विकेशकुमार: मुख्यवक्तृभ्य: पुस्तकानि प्रदाय समानितम् अकरोत्। डॉ. रामपाल धन्यवादप्रस्तावं कृतवान्। कार्यक्रमे मंडी इंटैक सचिव: अनिल शर्मा अपि उपस्थित: आसीत्।