HP Election : ‘धनशक्तिं जनशक्त्या पराजेतुं समयः आगतः’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् प्रायः सार्धैकवर्षस्य अल्पे कार्यकाले वर्तमानराज्यसर्वकारेण राज्यस्य हिताय समर्पणेन कार्यं कृतम्। सः अवदत् यत् राज्यसर्वकारः सर्वेषां सम्मानः, सर्वेषां अधिकारः इति मन्त्रेण अग्रे गच्छति। सः अवदत् यत् राज्यस्य विकासः भवतु, युवानः जीविकां प्राप्नुयुः, बालकानां भविष्यं उत्तमं भवतु, महिलाः स्वनिर्भराः भवेयुः, कृषकाः श्रमिका: च आर्थिकरूपेण सशक्ताः भवेयुः इति राज्यसर्वकारः दिवारात्रौ कार्यं कुर्वन् अस्ति।
सुखविन्दरसिंहसुक्खुः उक्तवान् यत् वयं भूमिसीलविधानस्य संशोधनं कृत्वा पुत्रीभ्य: पुत्रै: समानं स्थानं दत्तवन्तः। सामान्यजनस्य राजस्वसम्बद्धसमस्यानां समाधानार्थं नियमपरिवर्तनं कृत्वा राजस्वलोकन्यायालयानां आयोजनं क्रियते। एतेषां न्यायालयानां माध्यमेन लक्षशः लम्बितराजस्वप्रकरणानाम् निराकरणं कृत्वा जनानां कृते महदाश्रयं प्रदत्तम् इति सः अवदत्। मुख्यमन्त्री उक्तवान् यत् केवलं सार्धैकवर्षेषु राज्यसर्वकारेण १० प्रमुखासु निर्वाचनप्रतिश्रुतिषु ५ प्रतिज्ञा: पूर्णाः कृताः। सः अवदत् यत् जनाः वर्तमानं राज्यसर्वकारं पञ्चवर्षेभ्यः निर्वाचितवन्तः, वयं सर्वा: प्रतिज्ञा: पूर्णां कर्तुं प्रतिबद्धाः स्मः। सः अवदत् यत् जनविश्वासः वर्तमानस्य राज्यसर्वकारस्य बलम् अस्ति।
मुख्यमंत्री सुक्खुः उक्तवान् यत् भाजपा धनशक्तिं प्रयुज्य मतशक्तेः अनादरं कुर्वन् अस्ति। सः अवदत् यत् काङ्ग्रेसपक्षस्य ६ विधायकाः धनशक्तेः प्रभावेण स्वं विक्रीय जनद्रोहं कृतवन्तः। तेषां स्वार्थेन राज्यस्य जनानां उपरि ६ उपनिर्वाचनानां अनावश्यकं भारं स्थापितं अस्ति। सः अवदत् यत् जनद्रोहः सोढुं न शक्यते, अधुना जनशक्त्या धनशक्तिं पराजयितुं समयः आगतः। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः २०२७ वर्षपर्यन्तं हिमाचलप्रदेशं स्वावलम्बीं कर्तुं सर्वप्रयत्नः कुर्वन् अस्ति तथा च अस्माकं संकल्पः अस्ति यत् २०३२ वर्षपर्यन्तं राज्यं देशस्य सर्वाधिकसमृद्धराज्यं करणीयम्।