जयरामः अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: – जगतसिंहनेगी
हिमसंस्कृतवार्ता- शिमला।
राजस्व-उद्यानमन्त्री जगतसिंहनेगी-पक्षस्य नेता जयरामठाकुरस्य स्थितिः क्षीणतां प्राप्तवती इति उक्तवान्। विपक्षनेता एकस्य अज्ञानिनः मूढस्य च प्रत्याशिन: प्रचारार्थं व्यग्र: अस्ति। गुरुवासरे राज्यस्य काङ्ग्रेस-मुख्यालयस्य राजीवभवने शिमलानगरे पत्रकारसम्मेलने सः अवदत् यत् भाजपादलेन एतादृशः प्रत्याशी स्थापितः यः २०१४ तमे वर्षे देश: स्वातन्त्र्यं प्राप्तवान् इति वक्तव्यं ददाति। एतादृशानां कथनानां बालकानां सामान्यज्ञानस्य उपरि नकारात्मकः प्रभावः भविष्यति। निर्वाचन-आयोगेन एतस्य संज्ञानं ग्रहीतव्यम्। सुभाषचन्द्रबोसस्य वयं पूर्णतया सम्मानं कुर्मः, परन्तु केचन अज्ञानिनः जनाः तस्य विषये असमीचीनं वचनं कुर्वन्ति। भाजपा प्रदेशाध्यक्षस्य राजीवबिन्दलस्य वक्तव्यस्य प्रतिकारं कुर्वन् नेगी उक्तवान् यत् सावरकरस्य भाजपानेतृणां च आत्मा जिन्नया सह अस्ति।
जिन्ना स्वातन्त्र्यात् पूर्वं देशस्य नेता आसीत्, तस्मिन् समये प्रान्तीयसर्वकारेषु भाजपानेतारः अपि जिन्नया सह आसन्। नेगी इत्यनेन प्रधानमन्त्री नरेन्द्रमोदिन:, भाजपानेतृणामुपरि च आरोपः कृतः यत् इदानीं असत्यस्य कोषः क्षीणः जातः इति कारणेन धर्मस्य राजनीतिं कुर्वन्ति इति। काङ्ग्रेसस्य षट् न्यायै: २५ प्रतिज्ञाभि: च भाजपा निरुत्साहितः इति उक्तवान्। काङ्ग्रेसघोषणापत्रस्य कारणेन भाजपा आतङ्किता अस्ति। देशे जनभूमिः सर्वकारः ग्रहीष्यति, इति काङ्ग्रेसः कदापि न अवदत्। सः अवदत् यत् काङ्ग्रेसेन भूमिहीनानां कृते भूमिप्रदानस्य प्रतिज्ञा सर्वकारीयभूमिः एव। देशे भूमिसील-अधिनियमः अस्ति। अस्य आधारेण यदि कस्यचित् निर्धारितसीमातः अधिका भूमिः अस्ति तर्हि सर्वकारः तत् अधिगच्छति। नेगी इत्यनेन उक्तं यत् भाजपा विषयेषु न वदति।