शाहपुरस्य रजतस्य सफलतां दृष्ट्वा मुख्यमन्त्री सुक्खुः – आनन्दितः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः देशस्य बहुसम्मानितसंयुक्तरक्षासेवापरीक्षायां (सीडीएस) प्रथमस्थानं प्राप्तुं शाहपुरनिवासी रजतकुमारं हृदयेन अभिनन्दितवान्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः गुरुवासरे सामाजिकमाध्यमेषु उक्तवान् यत् रजतेन सम्पूर्णं हिमाचलप्रदेशं गौरवपूर्णं कृतम्।
प्रतिभाशालिनः युवारजतस्य एतस्याः उपलब्ध्याः विषये प्रत्येकः हिमाचलप्रदेशवासी गर्वम् अनुभवति। अस्य अभिलेखस्य निर्माणार्थं तस्मै हार्दिकं अभिनन्दनम्। राज्यसर्वकारस्य पक्षतः रजतस्य सुवर्णभविष्यस्य शुभकामना रजतकुमारेण सम्पूर्णे भारते सीडीएस परीक्षायां प्रथमस्थानं प्राप्य राज्याय गौरवम् आनयत्। रजतः अस्याः परीक्षायां विना किमपि प्रशिक्षणं उत्तीर्णः अस्ति। गतवर्षे रजतः शासकीयमहाविद्यालये शाहपुरे बीए परीक्षायां ८२ प्रतिशतं अंकं प्राप्य प्रथमस्थानं प्राप्तवान्, तदनन्तरं सः छात्रवृत्तिम् अवाप्तवान् ।