राष्ट्रपति प्रवास : पञ्चदिनानि यावत् पर्यटकानाम् कृते पिहितं भविष्यति रिट्रीटगृहम्
हिमसंस्कृतवार्ता- शिमला।
राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य हिमाचलप्रदेशस्य राजधानी शिमला-नगरस्य भ्रमणस्य कार्यक्रमः अन्तिमरूपेण समाप्तः अस्ति। मई ४ तः ८ पर्यन्तं राष्ट्रपतिः शिमलानगरस्य समीपे मशोबरायां स्थिते द रिट्रीट, राष्ट्रपति-निवास-इत्यत्र तिष्ठति। प्रस्तावितस्य भ्रमणस्य सज्जताया: सम्बन्धे जिला दण्डाधिकारी अनुपमकश्यप: अधिकारिभ्य: आवश्यकान् निर्देशान् अददत्। राष्ट्रपते: पञ्चदिवसीययात्रायां रिट्रीट सामान्यजनानाम् पर्यटकानां च कृते पिहितं भविष्यति।उपायुक्त: अनुपमकश्यपः अवदत् यत् राष्ट्रपतिः मई ४ दिनाङ्के दिल्लीतः शिमलानगरम् आगमिष्यति। मई ५ दिनाङ्के जलग्रहणक्षेत्रस्य भ्रमणं करिष्यति। ६ दिनाङ्के राष्ट्रपतिः केन्द्रीयविश्वविद्यालयस्य धर्मशालायाः दीक्षांतसमारोहे भागं ग्रहीष्यति। ७ दिनाङ्के प्रातःकाले सा संकटमोचन- तारादेवी-मन्दिरेषु पूजायां भागं ग्रहीष्यति। अपराह्ने सा मालरोडे रिजस्थले च भ्रमणं करिष्यति।
सायंकाले गेयटी-प्रेक्षागृहं गन्तुं योजना अस्ति। मई ८ दिनाङ्के प्रातःकाले शिमलातः देहलीनगरं प्रति प्रस्थास्यति। उपायुक्तेन भ्रमणकाले नगरे बृहत्वाहनानां गमनम् अपि स्थगयितुं निर्देशः दत्तः। पुलिसाधीक्षक: सीसीटीवी-यन्त्रद्वारा अपि निरीक्षणं करिष्यति।
राष्ट्रपते: पञ्चदिवसीययात्रायाः सज्जतायां व्यग्रं प्रशासनम्
राष्ट्रपते: पञ्चदिवसीयस्य शिमला-भ्रमणस्य सज्जता प्रशासनेन आरब्धा अस्ति। उपायुक्त: अनुपमकश्यपः लोकनिर्माणविभागाय विमानस्थानकात् द रिट्रीट, संकटमोचनमन्दिरं, तारादेवीमन्दिरं च इत्येतेषां मार्गाणां उन्नयनं कर्तुं निर्देशं दत्तवान्। मार्गेषु विद्युत्तन्त्रिणाम् उत्तमं परिपालनं सुनिश्चेतुं निर्देशाः अपि दत्ताः। सः नगरनिगमं, साडा, वनविभागं च द रिट्रीटपरिसरे स्वच्छता- अभियानं कृत्वा जलस्य निर्बाध-आपूर्तिं सुनिश्चितं कर्तुम् आह। अग्निशामकविभागाय अग्निपरीक्षां कर्तुं स्वास्थ्यविभागाय च ठोसव्यवस्थां कर्तुं निर्देशः अपि दत्तः।