विगतमासद्वये मुद्राप्रसारः ४.९ प्रतिशतं अभवत् : भारतीयरिजर्ववित्तकोषः
भारतीयरिजर्ववित्तकोषेन उक्तं यत् निवेशस्य प्रबलमागधा, उत्साहीव्यापारः, उपभोक्तृभावनाः, सकारात्मकता च वास्तविकजीडीपीवृद्धिं वर्धयितुं सम्भावना वर्तते। ‘अर्थव्यवस्थायाः स्थितिः’ इति शीर्षकेण आरबीआई इत्यनेन उक्तं यत् विगतमासद्वये ५.१ प्रतिशतं औसतं कृत्वा मार्चमासे उपभोक्तृमूल्यसूचकाङ्काधारितमुद्राप्रसारः ४.९ प्रतिशतं यावत् न्यूनीकृता अस्ति। तत्रापि उक्तं यत् जलवायोः घटनां दृष्ट्वा भूराजनीतिकतनावेन सह मुद्राप्रसारस्य समस्याः दीर्घकालं यावत् वर्धयितुं शक्नुवन्ति, यस्य प्रभावः तैलस्य मूल्येषु अपि दृश्यते।
विगतमासद्वये मुद्राप्रसारः ४.९ प्रतिशतं अभवत् : भारतीयरिजर्ववित्तकोषः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment