HP Politics : निर्वाचनात् पूर्वं उपद्रवसदृशं स्थितिं निर्माति सर्वकारः- राजीवबिन्दल:
हिमसंस्कृतवार्ता- शिमला।
भाजपादलस्य प्रदेशाध्यक्ष: डॉ. राजीवबिन्दल: इत्यनेन उक्तं यत् सुखविन्दरसिंहसुक्खो: सर्वकारः निर्वाचनात् पूर्वं राज्ये उपद्रवसदृशं स्थितिं निर्मातुम् इच्छति। जनसभायां निर्वाचितं विधायकं मर्दयित्वा मारयिष्यामि इति संत्रासं दत्त्वा सः राज्ये उपद्रवकर्तृभ्य: स्वतन्त्रतां दत्तवान्, यस्य परिणामेण पालमपुरनगरे एकस्याः बालिकायाः उपरि दिवाप्रकाशे तीक्ष्णशस्त्रेण १२ वारं आक्रमणं कृत्वा सा अर्धमृता अभवत्। एतत् प्रकरणं न निवृत्तम्।
भाजपादलस्य प्रदेशाध्यक्ष डॉ. राजीव बिन्दल: सिरमौरे लघुसभा सम्बोधयता कथयति स्म। सः अवदत् यत् वयं मुख्यमन्त्रिणं दोषं दद्मः यत् तस्य प्रेरणाकारणात् बद्दी इत्यस्य भीषणघटना अभवत्, यत्र मुक्ततया गोलिकाः प्रहारिताः। चम्बा-जनपदे निर्ममहत्यायाः अनन्तरं अद्यपर्यन्तं भवन्ति सर्वा: घटना: सिद्धयन्ति यत् उपद्रवकर्तृभ्य: सर्वकारस्य रक्षणं वर्तते, हिमाचलस्य अनेकस्थानानां जनाः भयस्य छायायां जीवन्ति। तस्मादपि चिन्ताजनकं यत् मुख्यमन्त्री, उपमुख्यमन्त्री, मन्त्रिणः च एकस्यापि घटनायाः विषये खेदं न प्रकटयन्ति, क्षमायाचनां वा न कुर्वन्ति।