मालदीवनिर्वाचनम् : जनराष्ट्रीयकाङ्ग्रेसपक्षेन सदनस्य ६६ आसनानि प्राप्तानि
मालदीवदेशे घोषितपरिणामानुसारं सदनस्य ८६ आसनेषु ६६ आसनेषु पीपुल्स नेशनल् काङ्ग्रेसपक्षः विजयं प्राप्तवान् । मालदीवस्य निर्वाचनआयोगेन एषा सूचना दत्ता। राष्ट्रपतिः मोहम्मदमुइज्जु इत्यस्य दलस्य कृते अयं निर्वाचनम् अग्निपरीक्षणम् इति गण्यते स्म । राष्ट्रपतिमुइज्जुपक्षस्य विरुद्धं भ्रष्टाचारस्य नीतीनां च विषये अपि बहवः आरोपाः आसन् ।
२०१९ तमस्य वर्षस्य निर्वाचने मुख्यविपक्षदलस्य मालदीव्स् डेमोक्रेटिक पार्टी (एमडीपी) महतीं विजयं प्राप्तवान् आसीत् किन्तु अधुना अयं दलः केवलं ११ आसनानि एव प्राप्तवान्। एमडीपी अध्यक्षः फैयाज इस्माइलः जनराष्ट्रीयकाङ्ग्रेसस्य निर्वाचितसदस्यानाम् अभिनन्दनं कृत्वा अवदत् यत् अस्माकं दलस्य सदस्याः लोकतान्त्रिकमूल्यानां उन्नयनार्थं सर्वकारेण सह मिलित्वा कार्यं करिष्यन्ति।