चतुरङ्गः – डी गुकेशः इतिहासं रचितवान्, फिडे स्पर्धां जित्वा कनिष्ठतमः क्रीडक अभवत्
कनाडादेशस्य टोरोन्टोनगरे क्रियमाणे (FIDE Candidates Chess Tournament) इत्यस्मिन् भारतस्य डी.गुकेशः इतिहासः निर्मितवान्। १७ वर्षीयः गुकेशः अस्यां स्पर्धायां विजयं प्राप्तवान् विश्वस्य कनिष्ठतमः चतुरङ्गक्रीडकः अभवत्। ह्यः क्रीडिते अन्तिमायां स्पर्धायां गुकेशः अमेरिकादेशस्य हिकारुनाकामुरा इत्यनेन सह सममूल्यतां प्राप्तवान् परन्तु तस्य विजयस्य निर्णयः तदा अभवत् यदा इयान् नेपोम्नियाच्ची तथा शीर्षस्थाने स्थापितः अमेरिकी फबियानो कारुआना च मध्ये क्रीडा सममूल्यतायां समाप्तवती।
भारतीययुवकः क्रीडकः गुकेशः कनिष्ठतमवयसि गैरी कास्पारोफ् इत्यस्य अभिलेखं भङ्गयित्वा एतत् विजयं प्राप्तवान् । कास्पारोफ् १९८४ तमे वर्षे २० वर्षीयः सन् अस्यां स्पर्धायां विजयं प्राप्तवान् ।
तदतिरिक्तं गुकेशः भारतस्य विश्वनाथन् आनन्दं पश्चात् विश्वशतरंजप्रतियोगितायाः योग्यतां प्राप्तवान् द्वितीयः भारतीयः क्रीडकः अभवत् ।