कंगना रणौत मंगलवासरात् राजस्थाने निर्वाचनप्रचारं करिष्यति
हिमसंस्कृतवार्ता- मण्डी।
मण्डीलोकसभाक्षेत्रतः भाजपा प्रत्याशी कंगनारणौत २३ अप्रैल तः राजस्थानस्य निर्वाचनप्रचारं तीक्ष्णं करिष्यति। सा पाली, जोधपुरं, बाड़मेर: संसदीयनिर्वाचनक्षेत्रेषु पथप्रदर्शनं करिष्यति। दलस्य केन्द्रीयनेतृत्वेन राजस्थानभाजपया च तस्या: पथप्रदर्शनस्य समयसूचना निर्धारिता अस्ति।
अनुरागठाकुरस्य अनन्तरं कङ्गना करिष्यति पथप्रदर्शनम्
केन्द्रीयसूचनाप्रसारणमन्त्रिण: अनुरागठाकुरस्य अनन्तरं कङ्गनारणौत हिमाचलप्रदेशस्य द्वितीया नेतृ भविष्यति या अन्यराज्येषु अपि दलस्य प्रत्याशीनां पक्षे पथप्रदर्शनम्, जनसभा च करिष्यति। सा अप्रैल-मासस्य २३, २४ दिनाङ्कयो: राजस्थानस्य मरुभूमितः काङ्ग्रेसपक्षे आक्रमणं करिष्यति। कङ्गनायाः दिल्लीनगरे पथप्रदर्शनस्य कार्यक्रमः अपि अस्ति। परन्तु तस्य तिथिः अद्यापि न निर्णीता। सोमवासरे कङ्गना दिल्लीनगरे अनेकैः वरिष्ठैः दलनेतृभिः सह मिलितवती।
२३ दिनाङ्के सा पालीसंसदीयक्षेत्रात् भाजपाप्रत्याशी पीपी चौधरी इत्यस्य पक्षे पथप्रदर्शनं करिष्यति। पाली- आसनस्य मतदानं अप्रैलमासस्य २६ दिनाङ्के भविष्यति। निर्वाचनप्रचारस्य अन्तिमचरणस्य भाजपापक्षे वातावरणं निर्मातुं कङ्गना यथाशक्ति प्रयतते। पालीक्षेत्रे पथप्रदर्शनम् सायं ४ वादने सुरणाभवनं पुरातनबसस्थानकात् आरभ्यते। विवेकानन्दसर्किल भूत्वा व्याससर्किल, अहिंसासर्किल, सूरज पोल, लोढ़ा विद्यालय एवं शिवाजी सर्किल पर्यन्तम् सायं ६:१५ वादने समाप्ता भविष्यति।