सम्प्रति उद्घाटनपट्टिकासु निर्वाचितानाम् नाम एव
पराजितनेतृणां नामानि कस्यिमपि आधारशिलायां वा उद्घाटनशिलायां वा न भविष्यति
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलसर्वकारेण राज्यस्य सर्वकारीययोजनानां उद्घाटनपट्टिकासु, शिलान्यासे च नामानि लिखितव्यानि इति विषये लिखितरूपेण आदेशाः प्रसारिताः। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विपक्षस्य आक्षेपं प्राप्य विधानसभासत्रे अस्मिन् विषये आश्वासनं दत्तवान् आसीत् । अस्य आश्वासनस्य आधारेण मुख्यसचिवः अधुना सर्वेभ्यः प्रशासनिकसचिवेभ्यः, विभागप्रमुखेभ्यः, उपायुक्तेभ्यः च एतत् पत्रं लिखितवान् अस्ति। इदं पत्रं २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २६ दिनाङ्कस्य अस्ति, परन्तु अधुना लोकनिर्माणविभागस्य क्षेत्रकार्यालयेषु प्राप्तम् अस्ति ।
मुख्यसचिवस्य पक्षतः उक्तं यत् विधानसभायां मुख्यमन्त्रिण: आश्वासनानुसारं भविष्ये उद्घाटनपट्टिकासु अथवा आधारशिलास्थापनफलकेषु एव मनसि स्थापनीयम् यत् एतासु पट्टिकासु नाम लेखनं केवलं निर्वाचितानाम् विधायकानां, अध्यक्षाणां, उपाध्यक्षाणां, सर्वकाराद् वेतनं वा मानदेयं वा प्राप्यमाणानां च उल्लेखः करणीयः। यदि भविष्ये कोऽपि अधिकारी एतासां मार्गदर्शिकानां अवज्ञां करोति तर्हि तस्य विरुद्धं अनुशासनात्मकं कार्यं क्रियते। तदनन्तरं मुख्यमन्त्री अस्मिन् विषये संशोधितान् निर्देशान् निर्गन्तुं आश्वासनं दत्तवान् आसीत् ।
सम्प्रति उद्घाटनपट्टिकासु निर्वाचितानाम् नाम एव
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment