प्रधानमंत्रिण: नरेन्द्रमोदिन: मम नाम्ना च काङ्ग्रेसः कम्पते, ये कन्यायै प्रश्नं कुर्वन्ति तेभ्यः मतदानं न कुर्वन्तु – कंगनारणौत
हिमसंस्कृतवार्ता – मण्डी।
भारतीय-जनता-पक्षस्य मण्डी लोकसभाक्षेत्रस्य प्रत्याशी कंगनारणौत बहिःस्था अस्ति इत्यस्योपरि सा प्रतिक्रियाम् अददत्। सा अवदत् यत् सा हिमाचलस्य पुत्री अस्ति, सा काङ्ग्रेसतः प्रमाणपत्रं न इच्छति।
काङ्ग्रेस-नेतृभ्यः प्रश्नं कुर्वन् कङ्गना पृष्टवती यत्, ये भारतं विदेशं च गत्वा स्वजीविकायाः साधनं कुर्वन्ति ते हिमाचलीया: न सन्ति वा? सा अपि केवलं जीविकाया: अन्वेषणार्थं मुम्बईनगरं गता आसीत् । तस्य सर्वे बन्धुजनाः अत्र सन्ति।
नाचनविधानसभाक्षेत्रस्य चैलचौके मार्गप्रदर्शनस्य पश्चात् पन्नाप्रमुखसम्मेलने भागं गृहीत्वा कङ्गना उक्तवती यत् एतद् निर्वाचनम् धर्मस्य अधर्मस्य च मध्ये भवति। भाजपा धर्मेण सह काङ्ग्रेसेन च अधर्मेण अर्थात् भ्रष्टजनै: सह तिष्ठति। मोदी मम च नाम्ना काङ्ग्रेसः कम्पते। कुण्ठिताः काङ्ग्रेसनेतारः स्वकन्यानां स्थितिं पृच्छन्ति। भगिनीसुतासु प्रश्नान् कुर्वद्भ्य: जनाः मतदानेन उत्तरं दद्युः।
नारीवन्दन-अधिनियमेन महिलाः अग्रे गमनस्य अवसरः प्राप्स्यन्ति
कङ्गना उक्तवती यत् काङ्ग्रेसेन सर्वदा महिलानां अपमानार्थं कार्यं कृतम् अस्ति। मोदी-सर्वकारेण नारीवन्दन-अधिनियमं कृत्वा महिलानां कृते अग्रे गन्तुं अवसरः दत्तः। काङ्ग्रेसेन सेना अपि अवनमिता अस्ति। शल्यप्रहारे प्रश्नं कुर्वद्भ्य: देशस्य जनाः न क्षमिष्यन्ति। वयं रामस्य सेना। मोदी रामस्य कार्ये निरतः। भ्रष्टाचारिणः कस्यापि परिस्थितौ सत्तां प्राप्तुं न अनुमन्यन्ते।
हिमाचले भ्रष्टाचार: प्रचण्ड: – कङ्गना
हिमाचलप्रदेशे भ्रष्टाचारः प्रचण्डः इति कङ्गना आरोपितवती । मुख्यमन्त्रिणा सुक्खुना सर्वकारस्य नियन्त्रणं न भवति। सर्वकारस्य उद्धाराय स: स्वमित्रेषु पदं वितरन्ति। आपत्काले मुख्यमन्त्री सुक्खुः, काङ्ग्रेसनेतारः च केन्द्रात् आर्थिकसहायता न प्राप्ता इति रोदनं कुर्वन्तः आसन् । सा मुख्यमन्त्री सुक्खुं पृष्टवती यत् केन्द्रात् प्राप्तानां १००८ कोटिरूप्यकाणां आर्थिकसहायतायाः राशिः कुत्र गता, जनसामान्यं प्रति उत्तरम् दद्यात्।
पूर्वमुख्यमन्त्री जयरामठाकुरः छोटीकाशी-नगरस्य इतिहासं दृष्ट्वा शिवधामस्य निर्माणस्य निर्णयं कृतवान् आसीत् । सुक्खु-सर्वकारेण हिन्दुविरोधिनां अभिनयं कृत्वा शिवधामस्य कार्यं स्थगितम् । पश्चात् कङ्गना बल्हविधानसभाक्षेत्रस्य रिवालसरतः दुर्गापुरपर्यन्तं मार्गप्रदर्शने भागं गृहीतवती।