भाजपा स्वपक्षे परिवारवादं न पश्यति : अनिरुद्धसिंह:
हिमसंस्कृतवार्ता:- शिमला।
ग्रामीणविकासः पंचायतीराजमन्त्री अनिरुद्धसिंहः उक्तवान् यत् काङ्ग्रेसस्य भाजपातः वंशवादस्य राष्ट्रवादस्य च ज्ञानं ग्रहीतुम् आवश्यकता नास्ति। काङ्ग्रेसपक्षस्य प्रधानमन्त्रिद्वयं इन्दिरागान्धी, राजीवगान्धी च देशाय स्वप्राणान् अर्पितवन्तौ। अस्मात् महत्तरं राष्ट्रवादस्य उदाहरणं किं भवेत्? काङ्ग्रेसस्य बहवः नेतारः देशस्य निर्माणे स्वस्य रक्तं स्वेदं च पातितवन्तः। अनिरुद्धसिंहः अवदत् यत् भाजपया अपि परिवारवादस्य परिभाषायाः विषये स्पष्टीकरणं कर्तव्यम्। लोकसभानिर्वाचने हिमाचलप्रदेशस्य देशस्य च ५० तः अधिकाः भाजपाप्रत्याशिनः एकस्मात् राजनैतिकपरिवारात् अन्यस्मात् वा आगच्छन्ति। सः अवदत् यत् भाजपानेतारः स्वपक्षस्य वंशवादं द्रष्टुं न शक्नुवन्ति, केवलं राज्यस्य जनान् भ्रमितुं वक्तव्यं ददति। निर्वाचनस्य वास्तविकविषयेभ्यः ध्यानं विचलितुं भाजपानेतारः एतादृशानि वक्तव्यानि ददति। परन्तु काङ्ग्रेसः निर्वाचने वास्तविकविषयेषु जनानां ध्यानं निरन्तरं आकर्षयिष्यति। निर्वाचनबन्धकाः देशस्य इतिहासे बृहत्तमः घोटाला इति उक्तवान्। केन्द्रसर्वकारेण कम्पनीभ्यः धनं ग्रहीतुं सर्वकारीयसंस्थानां दुरुपयोगः कृतः, निर्वाचनबन्धनद्वारा दानं च गृहीतम् ।