HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री
हिमसंस्कृतवार्ता – शिमला।
स्वास्थ्यमन्त्री कर्णल: धनीरामशाण्डिलः उक्तवान् यत् विपक्षनेता जयरामठाकुरः काङ्ग्रेसस्य सन्त्रासेण पीडितः अस्ति । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, काङ्ग्रेसनेतारः च तस्य निद्रायां अपि दृश्यन्ते। काङ्ग्रेसपक्षे दलवाद: नास्ति, सम्पूर्णं काङ्ग्रेसदलं मुख्यमन्त्रिणा सह शिला इव तिष्ठति। काङ्ग्रेससर्वकारेण १५ मासस्य कार्यकाले १० मध्ये ५ प्रतिज्ञा: पूर्णाः कृताः, विपक्षनेता तानि किमर्थं न पश्यति? विपक्षस्य कार्यं केवलं विरोधं न भवति, विपक्षपक्षेण अपि सत्कार्यस्य प्रशंसा कर्तव्या। शाण्डिलः अवदत् यत् विपक्षनेतुः स्मृतिः अपि दुर्बलः अस्ति। सः कथं विस्मृतवान् यत् तस्य सर्वकारेण कर्मचारिणः यदा ओपीएस-इत्येतत् याचन्ते स्म तदा तेषां उपरि यष्ट्यः, जलतोपाः च प्रयुक्ताः आसन्? जयराम ठाकुरः विधानसभायां उक्तवान् आसीत् यत् यदि कर्मचारीः पुरातनवृत्तिं इच्छन्ति तर्हि ते कार्यात् त्यागपत्रं दत्त्वा निर्वाचनं स्पर्धयन्तु। कथं विपक्षनेता वदति यत् सः पुरातनवृत्ते: विरोधं न कृतवान् इति? यदि जयरामः कर्मचारिणां शुभचिन्तकः अस्ति तर्हि केन्द्रसर्वकारात् एनपीएस-योगदानस्य ९००० कोटिरूप्यकाणि पुनः प्राप्तुं तस्य सहायतां कुर्वन्तु। विपक्षनेत्रा ग्राहस्य अश्रुपातं न कर्तव्यम्, जनसमूहः जानाति यत् मुद्राया: आधारेण मतदानद्वारा निर्वाचितं सर्वकारं पातयितुम् केन प्रयत्नः कृतः। स्वास्थ्यमन्त्री उक्तवान् यत् जयरामठाकुरस्य गणितं वास्तवमेव दुर्बलम् अस्ति। ६८ विधायकसभायां काङ्ग्रेसपक्षे ४० विधायकाः, निर्दलीयानां त्रयाणां समर्थनं च आसीत् । तदा अपि सर्वकारस्य निरपेक्षबहुमतम् आसीत्, अधुना विधानसभायां ६२ विधायकाः, काङ्ग्रेसस्य ३४ विधायकाः, सर्वकारस्य स्पष्टबहुमतं च अस्ति । तर्हि कथं जयरामः वदति यत् सर्वकारस्य सत्तायां स्थातुं अधिकारः नास्ति? विपक्षीदलं भाजपा अश्वव्यापारेण राज्यसभासनं जित्वा जनसामान्यं प्रति क्षमायाचनां कर्तव्या। जनसामान्यस्य सम्मुखे भाजपामुखस्य मुखावरणं निवृत्तमस्ति
शाण्डिलः अवदत् यत् बजटस्य अनन्तरं इन्दिरागान्धी-प्रियभगिनी-सुखसम्माननिधियोजनायाः घोषणा कृता, तस्याः मन्त्रिमण्डलस्य अनुमोदनं दत्तं, बजटे ८०० कोटिरूप्यकाणां प्रावधानमपि कृतम्। योजनायाः अधिसूचना प्रसारिता अस्ति। लाहौल-स्पीति-क्षेत्रयोः प्रथमांश: पूर्वमेव महिलानां लेखेषु स्थापितः अस्ति । यदा निर्वाचन आचारसंहिता कार्यान्वयनात् पूर्वमपि योजना प्रचलति स्म, तदा भाजपा विपक्षनेता च किमर्थं तां निवारयितुं प्रयतन्ते।
जयरामः महिलाभ्य: कथयेत् यत् सः किमर्थं योजनां निरन्तरं न इच्छति ? जयरामठाकुरः कार्यकाले किमपि न कृतवान्, अधुना काङ्ग्रेससर्वकारेण सुखाश्रययोजना,युवानां कृते ६८० कोटिरुप्यकाणां स्टार्टअप-योजना, दुग्धविषये न्यूनतमसमर्थनमूल्यं, मनरेगाकार्यकर्तॄणां दैनिकवेतने ६० रुप्यकाणां एकवारं वृद्धिः इत्यादीनि अनेका: जनकल्याणयोजना: बजटे आनीता: सन्ति अतः भाजपा स्वराजनैतिकभूमे: स्खलनं पश्यति।