HP Meteorological Centre : अद्यारभ्य: प्रदेशे नारङ्गवर्णीयसचेतना
हिमसंस्कृतवार्ता- शिमला।
ऋतुविज्ञानविभागेन गुरुवासरात् राज्ये नारङ्गवर्णीयसचेतना प्रसारिता अस्ति। अस्मिन् काले प्रचण्डवृष्टेः सम्भावना वर्तते । ऋतुविज्ञानविभागेन प्रशासनिकाधिकारिभ्यः स्थितिं प्रति सज्जाः भवितुम् निर्देशः दत्तः अस्ति। एतद् ऋतुपरिवर्तनं आगामिपञ्चदिनानि यावत् निरन्तरं भविष्यति।
अस्मिन् काले केषुचित् उच्चोच्चक्षेत्रेषु हिमपातस्य सम्भावना अपि वर्तते । यत्र तु समतलेषु क्षेत्रेषु वर्षाभि: सह प्रचण्डवज्रपातस्य, स्फोटनस्य च सम्भावना भविष्यति । अस्मिन् काले प्रतिहोरा ४०-५० किलोमीटर् वेगेन प्रचण्डवायुः प्रवहति इत्यपि ऋतुविज्ञानविभागेन उक्तम् अस्ति ।
प्रधानमन्त्री नरेन्द्रमोदी आभासीयमाध्यमेन रामललाया: सूर्यतिलकं दृष्टवान्। मोदीमहोदयः अवदत् यत् कोटिभारतीयै: इव एषः तस्य कृते अपि भावुकः क्षणः अस्ति। सः अवदत् यत् अयोध्यायाः भव्या रामनवमी ऐतिहासिकं पर्व अस्ति। सूर्यतिलकः सर्वेषां जीवने ऊर्जां प्रविशतु इति प्रधानमन्त्रिणा कामना कृता। एषः तिलकः राष्ट्रं गौरवस्य नूतनानि ऊर्ध्वतानि प्राप्तुं प्रेरयेत् इति अपि सः कामयते स्म।