प्रथमचरणस्य लोकसभानिर्वाचनस्य अभियानं समाप्तम्
हिमसंस्कृवार्ताः। प्रथमचरणस्य लोकसभानिर्वाचनस्य अभियानं गतसायं समाप्तम्। अस्मिन् चरणे शुक्रवासरे १७ राज्येषु चतुर्षु च केन्द्रप्रदेशेषु १०२ निर्वाचनक्षेत्रेषु मतदानं भविष्यति।
अरुणाचलप्रदेशः, मेघालयः, मिजोरमः, नागालैण्डः सिक्किमः, अण्डमाननिकोबार द्वीपः, लक्षद्वीपः, पुडुचेरी, उत्तराखण्डः, तमिलनाडु इत्यादिषु सर्वेषु लोकसभासनेषु अस्मिन् चरणे मतदानं भविष्यति।
राजस्थाने १२, उत्तरप्रदेशे ८, मध्यप्रदेशे ६, असम-महाराष्ट्रे पञ्च-पञ्च, बिहारे चत्वारि, पश्चिमबङ्गे त्रीणि, मणिपुरे द्वे, छत्तीसगढे, त्रिपुरायां, जम्मू-कश्मीरे च एकैके आसने च प्रथमचरणं मतदानं भविष्यति।
प्रथमचरणस्य लोकसभानिर्वाचनस्य अभियानं समाप्तम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment