Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता: प्रदेशस्य शक्तिपीठा:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
चैत्रनवरात्रस्य अष्टम्यां मंगलवासरे राज्यस्य शक्तिपीठा: मातु: जयघोषै: प्रतिध्वनिता: आसन्। मंगलवासरे राज्यस्य पञ्चशक्तिपीठेषु चिन्तपूर्णी,ज्वालाजी, नैनादेवी, ब्रजेश्वरीदेवी, चामुण्डादेवीमन्दिरेषु ८४ सहस्र भक्ताः प्रणामं कृतवन्तः। चैत्रनवरात्रस्य सप्तमेदिने राज्यस्य चतुर्षु शक्तिपीठेषु मातृदेव्याः भक्ताः ४२ लक्षं ३० सहस्रं ४१४ रुप्यकाणां राशि: अर्पितवन्तः। चैत्रनवरात्रमेलासु मन्दिरेषु मातृदेव्याः विशेषपूजनं क्रियते। नवरात्रस्य कृते मन्दिराणि विविधवर्णै: सुगन्धितपुष्पैः अलङ्कृतानि सन्ति ।
एतदतिरिक्तं मातृदेव्याः दर्शनार्थं मन्दिरस्य उद्घाटननिरोधाय अपि पृथक्-पृथक् समयः निर्धारितः अस्ति । ऊनाजनपदस्य उपायुक्त: जतिनलाल: अवदताम् यत् नवरात्रमेलाया: अष्टम्यां चिंतपूर्णीमन्दिरे प्रायश: २० सहस्र श्रद्धालव: दर्शनं कृतवन्त:। सः अवदत् यत् सप्तमनवरात्रे मन्दिरन्यासेन ८ लक्षं ७० सहस्रं ९११ रुप्यकाणि अर्पणरूपेण प्राप्तानि सन्ति। तस्मिन् एव काले नवरात्र्याः अष्टमीदिने नैनादेवीमन्दिरस्य मातृदेव्याः चरणयोः ३० सहस्र भक्ताः शिरः प्रणामं कृतवन्तः । नैनादेवीमन्दिरस्य अधिकारी विपिनठाकुरः अवदत् यत् नवरात्रिमेलायां सप्तमीदिने मन्दिरन्यासेन १७ लक्षं ३७ हजार ५५२ रुप्यकाणां राशि: प्राप्ता।
मंगलवासरे ज्वाला जी मन्दिरे १५ सहस्र श्रद्धालव: दर्शनं कृतवन्त:। मन्दिराधिकारी मनोहरलालशर्मा इत्यनेन उक्तं यत् नवरात्रस्य सप्तमीदिने मन्दिरन्यासेन १३ लक्षं ५६ सहस्रं ३३९ रुप्यकाणां राशि: प्राप्ता। एतदतिरिक्तं सोमवासरे काङ्गड़ानगरस्य ब्रजेश्वरीदेवीमन्दिरस्य मातृदेव्याः चरणयोः षट्सहस्र भक्ताः प्रणामं कृतवन्तः। मन्दिरस्य अधिकारी मोहितरत्नः अवदत् यत् नवरात्रिमेलायां सप्तमीदिने मन्दिरन्यासस्य कृते २ लक्षं ६५ सहस्रं ६१२ रुप्यकाणां राशि: प्राप्ता। एतदतिरिक्तं मंगलवासरे चामुण्डादेवीमन्दिरे १३ सहस्र भक्ताः मातृदेव्याः चरणयोः प्रणामं कृतवन्तः। मन्दिरस्य अधिकारी गिरिराजठाकुरेण मन्दिरन्यासस्य पक्षतः भक्तानां कृते उत्तमव्यवस्था कृता अस्ति। मन्दिरस्य अधिकारी गिरिराजठाकुरः अवदत् यत् यज्ञस्य पूर्णार्पणं मन्दिरे १७ एप्रिल दिनाङ्के मध्याह्न १२ वादने भविष्यति।