भारतीय आर्थिकसेवायाः युवाधिकारिणां कर्तव्यमस्ति यत् ते नूतनानां विचाराणां उपयोगेन स्वस्य कार्यक्षमतां वर्धयेयुः-राष्ट्रपतिद्रौपदी मुर्मू
राष्ट्रपतिद्रौपदी मुर्मू इत्यनया उक्तं यत् प्रदत्तानां विश्लेषणेन प्रमाणाधारितविकासकार्यक्रमानाम् कार्यान्वयनेन च जनानाम् आर्थिकोत्थानस्य त्वरितसमाधानार्थं सर्वकारस्य साहाय्यम् अभवत्। सा अवदत् यत् भारतीय आर्थिकसेवायाः युवाधिकारिणां कर्तव्यमस्ति यत् ते नूतनानां विचाराणां, पद्धतीनां, प्रौद्योगिक्याः च उपयोगेन स्वस्य कार्यक्षमतां वर्धयेयुः। राष्ट्रपतिभवने भारतीय आर्थिकसेवायाः परिवीक्षाधिकारिणां समूहं सम्बोधयन् सा अवदत् यत् आर्थिकवृद्धिः देशस्य विकासाय महत्त्वपूर्णः भागः अस्ति। सा युवाधिकारिभ्यः आह्वानं कृतवती यत् कार्यस्थले निर्णयकाले देशस्य निर्धनानां, वञ्चितानां च हितं मनसि सदा धारयेयुः।