काङ्ग्रेसदलम् महिलाविरोधी हिन्दुविरोधी च… कंगनारणौत
हिमसंस्कृतवार्ता- मण्डी।
मण्डीसंसदीयनिर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कङ्गनारणौत प्रचारस्य तृतीयेदिने अपि काङ्ग्रेसपक्षे आक्रमणं निरन्तरं कृतवती। जोगेन्द्रनगरविधानसभाक्षेत्रस्य पथप्रदर्शनस्य अनन्तरं रामलीलाप्राङ्गणे जनसभां सम्बोधयन् सा काङ्ग्रेसं महिलाविरोधी हिन्दुविरोधी च इति वर्णितवती। कङ्गना उक्तवती यत् काङ्ग्रेसः कदापि महिलानां कृते अग्रे गन्तुं अवसरं न ददाति। जोगेन्द्रनगरे पथप्रदर्शनस्य समये कङ्गना हिमाचली नृत्यं अपि कृतवती ।
प्रत्येकं क्षेत्रे महिलाः प्रगतिम् कुर्वन्ति – कंगनारणौतः
मोदीसर्वकारस्य विगतदशवर्षेषु महिलाः प्रत्येकस्मिन् क्षेत्रे शीर्षस्थानं प्राप्तवत्य: । काङ्ग्रेसः तुष्टीकरणराजनीतिं कृत्वा हिन्दुनां अपमानं कर्तुं प्रयतमाना आसीत् । स्वातन्त्र्यस्य ७७ वर्षाणाम् अनन्तरम् अपि काङ्ग्रेसस्य महिलानां विषये चिन्तनं न परिवर्तितम्। लघुग्रामस्य कन्यायाः भाजपात: नामपत्रं प्राप्य काङ्ग्रेस-सदस्याः क्रुद्धाः भूत्वा तस्याः अपमानस्य आश्रयं कृतवन्तः । काङ्ग्रेसेन उभयहस्तेन देशं लुण्ठितम्
पूर्वं देशः सम्पूर्णे विश्वे घोटालानां स्थानत्वेन प्रसिद्धः आसीत् । अधुना घोटालानां युगस्य समाप्तेः अनन्तरं विगतदशवर्षेषु प्रत्येकस्मिन् क्षेत्रे देशः प्रगतिम् अकरोत् । प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे नूतनभारतस्य स्वप्नः साकारः भवति। मोदीसर्वकारेण महिलानां, कृषकाणां, युवानां च अग्रे गमनस्य अवसरः प्रदत्तः।
१० वर्षेषु देशे बहु परिवर्तनं जातम् : कङ्गनारणौतः
पूर्वं देशः सम्पूर्णे विश्वे घोटालानां स्थानत्वेन प्रसिद्धः आसीत् । अधुना घोटालानां युगस्य समाप्तेः अनन्तरं विगतदशवर्षेषु प्रत्येकस्मिन् क्षेत्रे देशः प्रगतिम् अकरोत् । प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे नूतनभारतस्य स्वप्नः साकारः भवति। मोदीसर्वकारेण महिलानां, कृषकाणां, युवानां च अग्रे गमनस्य अवसरः प्रदत्तः।
सुक्खुसर्वकारस्योपरि क्रुद्धा कंगना
कङ्गनया आरोपः कृतः यत् राज्यस्य सुक्खुसर्वकारेण आपद्काले केन्द्रसर्वकाराद् आर्थिकसाहाय्यस्य गबनं कृतम्। विधानसभानिर्वाचने जनानां कृते दत्तासु १० प्रतिज्ञासु १५ मासेषु एकापि प्रतिज्ञा न पूर्णा। राज्ये अस्थिरतायाः वातावरणं वर्तते। विकासकार्यस्य स्थगणस्य कारणेन जनसमूहः दुःखितः अस्ति। नूतनभारतस्य स्वप्नस्य साकारीकरणाय सः क्षेत्रस्य जनेभ्य: समर्थनं याचितवती।