HP Politics : सुधीरशर्मा मुख्यमन्त्रिण: विरुद्धं निजी- आपराधिकोपालम्भं पञ्जीकृतवान्।
हिमसंस्कृतवार्ता- धर्मशाला।
धर्मशालातः पूर्वमन्त्री तथा भाजपा प्रत्याशी सुधीरशर्मा इत्यनेन मंगलवासरे धर्मशालान्यायालये मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: विरुद्धं निजी आपराधिकोपालम्भं पञ्जीकृतवान्। सः उक्तवान् यत् हिमाचले आरब्धम् एतत् व्यक्तिगतं राजनैतिकयुद्धं मुख्यमन्त्रिणा आरब्धम् अस्ति, सः तस्य समाप्तिम् करिष्यति। सः अवदत् यत् मुख्यमन्त्री मुक्ततया तस्य विरुद्धं बहवः गम्भीरान् आरोपान् करोति। सुधीरशर्मा अवदत् यत् मम आरोपः व्यक्तिगतः नास्ति, यदा तु मुख्यमन्त्रिण: आरोपाः तथ्यहीनाः व्यक्तिगताः च सन्ति। सर्वकारस्य मुख्यमन्त्रिणः च आज्ञानुसारं पुलिसैः नृत्यं न कर्तव्यम्।
शिमलायां पञ्जीकृते त्वरितप्रकरणे कस्यचित् आयुः असमीचीन: लिखितः, कस्यचित् धर्मः अपि सम्यक् न लिखितः। एतेन पुलिसाधीक्षक: शिमला किं करोति इति ज्ञायते। अधुना राज्यसभायां भाजपा-प्रत्याशिनः पक्षे पार- मतदानानन्तरं हिमाचलराजनीतौ यत् शब्द-युद्धम् आरब्धम्, तस्य स्थगनस्य किमपि लक्षणं न दर्शयति।