विक्रमादित्यसिंह:, विनोदसुल्तानपुरी, विवेक शर्मा च अस्माकं प्रत्याशिन: – मुकेश: अग्निहोत्री
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यनेन महती घोषणा कृता यत् मण्डीतः विक्रमादित्यसिंहः, शिमलातः विनोद सुल्तानपुरी, कुटलैहड़तः विवेकशर्मा च अस्माकं प्रत्याशिन: भविष्यन्ति। मंगलवासरे ऊनामण्डले मीडियाभिः सह वार्तालापं कुर्वन् मुकेश अग्निहोत्री अवदत् यत् काङ्ग्रेसः न केवलं उपनिर्वाचने विजयं प्राप्स्यति, तदनन्तरं शिमलाग्रामीण- कसौली- क्षेत्रयोः अपि दलं विजयं प्राप्स्यति, यत्र स्वतन्त्रविधायकैः सह त्रयः विधानसभाक्षेत्राणि सन्ति। मुकेशः अवदत् यत् विक्रमादित्यसिंहः युवा अभ्यर्थी अस्ति। हमीरपुरतः सम्भाव्यः अभ्यर्थी सतपाल रायजादा अस्ति। सः अवदत् यत् भाजपा सर्वकारं पातुं प्रयतते स्म किन्तु काङ्ग्रेससर्वकारः प्रबलः अस्ति।