HP News : हिमाचल राज्यसभा निर्वाचनं निरस्तं कर्तव्यम् – अभिषेक मनुसिंघवी उच्चन्यायालये याचिकां प्रविष्टवान्।
हिमसंस्कृतवार्ता- शिमला।
सर्वोच्चन्यायालयस्य वरिष्ठ: अधिवक्ता अभिषेक: मनुसिंघवी हिमाचलप्रदेशस्य उच्चन्यायालये राज्यसभानिर्वाचनप्रक्रियायै आह्वानम् दत्तवान्। अभिषेक: मनुसिंघवी व्यक्तिगतरूपेण हिमाचलप्रदेश- उच्चन्यायालयं प्राप्य याचिकान प्रविष्टवान्। अस्यां याचिकायां उक्तं यत् ड्रा ऑफ़ लॉट्स इत्यस्य यस्य नियमस्य आधारेण स: निर्वाचनं पराजितवान् तस्य नियमः दोषपूर्णः अस्ति । सः उच्चन्यायालयात् एतत् निर्वाचनं निरस्तं कर्तुं आग्रहं उत्थापितवान् अस्ति।
अभिषेक मनुसिंघवी इत्यस्य पक्षतः प्रविष्टयाचिकायाम् उक्तं यत् यस्य व्यक्ते: नाम चिटिका-मध्ये दृश्यते सः निर्वाचनं पराजयेत्। न तादृशः नियमः। केवलं परम्परारूपेण एव व्यवहारे आगतम्। निर्वाचने चिटिकानिर्वाहस्य एतां प्रक्रियां आह्वानम् दत्त्वा निर्वाचनस्य निरस्तीकरणस्य आग्रहं उत्थापितवान् अस्ति।
अभिषेक मनुसिंघवी तथा हर्षमहाजन: उभौ ३४-३४ मतं प्राप्तवन्तौ
अवधेयं वर्तते यत् हिमाचलप्रदेशे आयोजिते राज्यसभानिर्वाचने आहत्य ६८ मतेषु काङ्ग्रेसपक्षस्य अभिषेकमनुसिंघवी ३४ मतं, भाजपापक्षस्य हर्षमहाजनस्य अपि ३४ मतं प्राप्तम्। उभयपक्षेषु ३४-३४ मतानाम् अनन्तरं नियमानुसारं चिटिकानिर्गमनं स्वीकृतम् । यस्य नाम चिटिका मध्ये आसीत् सः निर्वाचनं पराजितवान्। अभिषेक: मनुसिंघवी इत्यस्य नाम चिटिका मध्ये आविर्भूतम्। अतः हर्षमहाजनः निर्वाचने विजयं प्राप्तवान् ।
६ काङ्ग्रेसविधायकाः पारमतदानं कृतवन्तः
हिमाचले राज्यसभानिर्वाचनस्य समये षट् काङ्ग्रेसविधायकाः पारमतदानं कृतवन्तः आसन्। यस्य कारणात् भाजपा-काङ्ग्रेस-उभयोः प्रत्याशिनौ ३४-३४ मतं प्राप्तम् । तदनन्तरं लॉट्-ड्रा-अन्तर्गतं टॉस इति अभवत्, ततः भाजपा-प्रत्याशी हर्षमहाजनः विजयी अभवत् । पारमतदानं कुर्वतां काङ्ग्रेसविधायकानां विरुद्धं दलेन कार्यविधि: कृता, तेषां अयोग्यत्वं च घोषितम्। अस्मिन् काले हिमाचले राजनीतिषु बहु अशान्तिः अभवत् । तदनन्तरं विद्रोही विधायकाः भाजपायां सम्मिलिताः।