Himachal Day 2024 : हिमाचलदिवसस्य समारोहस्य सज्जतायै सन्नद्धं प्रशासनम्, शिमलायां ऐतिहासिके रिजस्थले भविष्यति समारोह:
हिमसंस्कृतवार्ता- शिमला।
हिमाचलदिवसस्य राज्य-स्तरीयसमारोहः १५ एप्रिल दिनाङ्के ऐतिहासिके रिजस्थले आचर्यते। राज्यपाल: शिवप्रतापशुक्ल: समारोहस्य मुख्यातिथि: भविष्यति। गतदिवसे आयोजिताया: सभायाः अध्यक्षतां कुर्वन् उपायुक्त: शिमला अनुपमकश्यप: समारोहस्य सज्जतायाः विषये एतां सूचनां दत्तवान्।
सांस्कृतिकदलानां प्रस्तुतय: भविष्यन्ति
कश्यपः अवदत् यत् कार्यक्रमे आकर्षकपथप्रदर्शनस्य आयोजनं भविष्यति, यस्मिन् शिमलापुलिसदलं, यातायातपुलिसदलं, गृहरक्षादलं, एनएसएस, स्काउट् एण्ड् गाइड्स्, एसडीआरएफ, इण्डियन पुलिस रिजर्व कोर इत्यादयः सम्मिलिताः भविष्यन्ति, यस्य पूर्वाभ्यासः १० अप्रैलतः आरभ्यते। तथैव अस्मिन् समारोहे सांस्कृतिककार्यक्रमाः अपि आयोजिताः भविष्यन्ति, येषु हमीरपुरं, सिरमौरं, मण्डी, काङ्गड़ा जनपदेभ्यः उत्तमाः सांस्कृतिकसमूहाः प्रदर्शनं करिष्यन्ति।
हिमाचलगृहरक्षावाद्यदलं आकर्षणस्य केन्द्रं भविष्यति
सभायां कथितं यत् हिमाचलप्रदेशपुलिसस्य हिमाचलगृहरक्षाया: वाद्यदलं च अस्मिन् समारोहे आकर्षणकेन्द्रं भविष्यति। निर्देशं दत्त्वा उपायुक्तः अवदत् यत् सर्वाणि आमन्त्रणपत्राणि समये एव प्रेषयितव्यानि। एतदतिरिक्तं सः कार्ये स्वातन्त्र्यसेनानीनां कृते उत्तमव्यवस्थां कर्तुं निर्देशं दत्तवान्। अनुपम कश्यपः अपि समारोहस्थले स्वच्छतायाः विशेषतया पालनं कृत्वा उत्तमसज्जा सुनिश्चितं कर्तुं निर्देशं दत्तवान्।
उपायुक्तेन निर्देशा: दत्ता:
उपायुक्तेन सर्वेभ्यः विभागेभ्यः समन्वयेन कार्यं कृत्वा निर्धारितसमये सर्वा: सज्जता: पूर्णा: कर्तुं निर्देशः अपि दत्तः।