HP News : धूमलकुटुम्बं निम्नं दर्शयितुं जयरामठाकुरेण राजेन्द्रराणावर्यस्य भाजपादले प्रत्यागमनम् कारितम् – चन्द्रशेखर:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशकाङ्ग्रेसस्य कार्यकारी-अध्यक्षः विधायकश्च चन्द्रशेखरः उक्तवान् यत् पूर्वमुख्यमन्त्री जयरामठाकुरेण धूमलपरिवारस्य अपमानार्थं राजेन्द्रराणावर्यस्य भाजपायां प्रवेशः कारितः। सः अवदत् यत् २०१७ तमस्य वर्षस्य विधानसभानिर्वाचने राजेन्द्रराणा काङ्ग्रेसस्य प्रतीकस्य उपरि प्रतिस्पर्धां कृत्वा भाजपायाः मुख्यमन्त्रीपदस्य प्रत्याशी प्रेमकुमारधूमलस्य पराजयं कृतवान्। निर्वाचने भारतीयजनतापक्षस्य बहुमतस्य अभावेऽपि धूमलः मुख्यमन्त्रीपदं प्राप्तुं न शक्तवान् । ‘आकस्मिकमुख्यमन्त्री’ जयरामठाकुरः पदं स्वीकृत्य एकवारं अपि धूमलं मेलितुं न गतः, परन्तु अधुना उपनिर्वाचनात् पूर्वं जयरामठाकुरः धूमलपरिवारस्य स्मरणं कृतवान् अस्ति।
सः अवदत् यत् पूर्वभाजपासर्वकारस्य कार्यकाले धूमलस्य तस्य परिवारस्य च प्रति यत् दुर्व्यवहारं कृतम् आसीत् तत् हमीरपुरमण्डलस्य जनाः अद्यापि न विस्मरन्ति। मुख्यमन्त्री पदं धारयन् जयरामठाकुरः प्रेमकुमार धूमलस्य किमपि कार्यं न कृतवान् राजेन्द्रराणा इत्यस्य कार्ये प्राथमिकताम् अददत् । एतदेव न, धूमलपरिवारस्य विरोधेऽपि राजेन्द्रराणावर्यस्य भाजपायां प्रवेशः अभवत्। सः अवदत् यत् राजेन्द्रराणा-धूमलपरिवारयोः सम्बन्धः जनसाक्ष्ये एव अस्ति, परन्तु तदपि जयरामठाकुरेण धूमलपरिवारस्य आत्मसम्मानं आहतं कृत्वा तेषां अपमानं कृतम्।
चन्द्रशेखरः अवदत् यत् विगतषड्वर्षेषु जयरामठाकुरः पूर्वमुख्यमन्त्री प्रेमकुमारधूमलस्य स्थितिं ज्ञातुं एकवारं अपि तस्य गृहं न गतः। इदानीं यदा तस्य प्रतिद्वन्द्वी राजेन्द्रराणा भाजपायां सम्मिलितः अस्ति तदा जयरामठाकुरस्य धूमलस्य प्रति प्रेम सहसा जागरितः अस्ति। राज्यकाङ्ग्रेसस्य कार्यकारी अध्यक्षः अवदत् यत् राजेन्द्रराणा भाजपां त्यक्त्वा विगत ११ वर्षेषु प्रेमकुमारधूमलस्य प्रत्येकं पदे अपमानं कृतवान्। यद्यपि राणा धूमलं स्वराजनैतिकगुरुः इति कथयति तथापि शिष्यः एव गुरुमूलच्छेदने प्रवृत्तः आसीत् इति अपि सत्यम् । सः अवदत् यत् अधुना भाजपायां सम्मिलितस्य अनन्तरं राजेन्द्रराणा केन बाध्यतायां समीरपुरे परिभ्रमति।
चन्द्रशेखरः अवदत् यत् हमीरपुरस्य जनाः बुद्धिमन्तः सन्ति, ते राजेन्द्रराणावर्यस्य प्रभावे पुनः पुनः न पतन्ति। राजेन्द्रराणावर्यस्य वास्तविकं मुखं मतदातॄणां सम्मुखं वर्तते यतोहि भाजपायां सम्मिलितं कृत्वा सः अवसरवादी राजनीतिं दर्शितवान्। आगत: राम: -गत: राम: इत्यस्य राजनीतिं प्रति सुजानपुरजनाः समुचितं उत्तरं दास्यन्ति, उपनिर्वाचने तेषां पराजयः निश्चितः अस्ति। सः अवदत् यत् उपनिर्वाचने काङ्ग्रेसपक्षः षट् आसनेषु स्वच्छं विजयं करिष्यति, विजयस्य ध्वजं च उत्थापयिष्यति। सः अवदत् यत् भाजपायाः धनशक्तिराजनीतिः जनशक्तिद्वारा राज्ये एव समाप्त: भविष्यति।