आपराधिकन्यायप्रणाल्याः परिवर्तने प्रौद्योगित्याः महत्वपूर्णभूमिका- मुख्यन्यायाधीशः डी.वी.चन्द्रचूड़ः
भारतस्य मुख्यन्यायाधीशः न्यायाधीशः डी.वाई. चन्द्रचूडः आपराधिकन्यायव्यवस्थायाः परिवर्तने प्रौद्योगिक्याः महत्त्वपूर्णभूमिकायाः उपरि बलं दत्तवान् अस्ति । नवदिल्लीनगरे केन्द्रीय-अन्वेषणब्यूरो-सीबीआई दिवसस्य अवसरे २० तमं डी.पी.कोहली स्मृतिव्याख्यानं दत्त्वा न्यायाधीशः चन्द्रचूडः नवीनयुगस्य आपराधिकजालस्य प्रभावीरूपेण निबद्धुं नूतनप्रौद्योगिकीम् अङ्गीकृत्य बलं दत्तवान्। तेनोक्तं यत् समयस्य आवश्यकता सीबीआई-कार्यप्रक्रियाणां जटिलतां ज्ञात्वा कठिनतां परिहरितुं प्रौद्योगिक्याः प्रयोगो भवेत् । भारतस्य मुख्यन्यायाधीशः अवदत् यत् प्रौद्योगिक्याः शीघ्रं न्यायपूर्णं च विवेचनं सम्भवं भविष्यति।
न्यायाधीशः चन्द्रचूडः अवदत् यत् अङ्कीयरूपान्तरणस्य युगे अपराधस्य अन्वेषणे अधिनियमे प्रौद्योगिक्यां च अपारक्षमता वर्तते। सः अवदत् यत् सीबीआई सदृश- अधिनियमप्रवर्तनसंस्थाभ्यः नूतनानां जटिलानां च सम्मुखीकरणं जायमानमस्ति। येषां कृते नवीनसमाधानस्य आवश्यकता वर्तते। सः आपराधिकन्यायव्यवस्थायां सर्वेषां हितधारकाणां मध्ये सहकार्यस्य महत्त्वं बोधितवान्। मुख्यन्यायाधीशः डिजिटलप्रशिक्षणस्य आवश्यकतायाः विषये अपि बोधितवान्।
अस्मिन् अवसरे सीबीआई-अधिकारिभ्यः विशिष्टसेवायाः कृते राष्ट्रपतिपुलिसपदकं, योग्यसेवायाः पुलिसपदकं च प्रदत्तम् भारतसर्वकारस्य संकल्पेन १९६३ तमे वर्षे एप्रिल-मासस्य १ दिनाङ्के केन्द्रीय-अनुसन्धान-ब्यूरो-संस्थायाः स्थापना अभवत् । अस्य उद्देश्यं न केवलं भ्रष्टाचारस्य च प्रकरणानाम् अन्वेषणं अपितु सहायकगुप्तचरसङ्ग्रहस्य अतिरिक्तं केन्द्रीयवित्तीयकायदानानां उल्लङ्घनस्य गम्भीरापराधानां च अन्वेषणम् अस्ति। सीबीआई स्वस्य संस्थापकनिदेशकस्य डी.पी.कोहली इत्यस्य सम्माने श्रद्धांजल्याश्च चिह्नरूपेण २००० तमात् वर्षात् डी.पी.कोहली स्मृतिव्याख्यानस्य आयोजनं कुर्वती अस्ति।