Lok Sabha Election 2024 : कंगनारणौत इत्यनया सह मिलितवान् पूर्वमुख्यमन्त्री जयरामठाकुरः, मण्डीतः नामपत्रं प्राप्तुं तस्याः अभिनन्दनं कृतवान्
हिमसंस्कृतवार्ता:- मण्डी।
पूर्वमुख्यमन्त्री, विपक्षनेता च जयरामठाकुरः रविवासरे मण्डी संसदीयक्षेत्रस्य भारतीयजनतापक्षस्य प्रत्याशी कङ्गनारणौताया: गृहे तया सह मिलितवान्। अस्मिन् काले कङ्गना पूर्वमुख्यमन्त्रिणः स्वागतं कृतवती। पूर्वमुख्यमन्त्री तस्यै अभिनन्दनं कृत्वा नामपत्रं प्राप्त्यर्थं अभिनन्दनं कृतवान्। आगामि-अभियानस्य रूपरेखायाः विषये द्वयोः मध्ये चर्चा अभवत्। एतस्मिन् समये स्थानीयविधायकः दलीपठाकुरः अपि तेन सह उपस्थितः आसीत्।
प्रचारकाले कङ्गनारणौत प्रशंसकानां कृते हस्ताक्षराणि दत्तवती
भाजपा प्रत्याशी कङ्गना इत्यनया पथसभाभिः निर्वाचनप्रचारस्य आरम्भः स्थले एव कृतः। पौन्टा, फतेहपुरं, अपरबरोट, ठाणा, गोपालपुरं, हरिबैहना इत्यत्र जनसामान्येन सह संवादं कृतवती। कङ्गना भाजपा- सङ्घटनात् पूर्णसमर्थनं प्राप्नोति। प्रचारकाले कङ्गना प्रशंसकानां कृते हस्ताक्षराणि दत्तवती।