हिमपातेन वृष्ट्या च भरमौर-पठानकोटराजमार्गसहितं षट्मार्गेषु वाहनानां गति: स्थगिता, विद्युतापूर्ति: अपि बाधिता
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे ऋतो: परिवर्तनात् चम्बामण्डलस्य भरमौर- पाङ्गी- क्षेत्रयोः हिमपातः अभवत्, निम्नक्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अस्माद् कारणात् भरमौर- पठानकोटराजमार्गसहितं षट्मार्गेषु वाहनानां गतिः स्थगिता। यथा यथा वाहनानां वेगः मन्दः भवति स्म तथा तथा लघुबृहद्वाहनानां दीर्घपङ्क्तिः शीघ्रमेव निर्मिता। स्वगन्तव्यस्थानं प्रति गच्छन्तः जनाः मार्गाणां अवरोधनात् समस्या: सम्मुखी कुर्वन्ति स्म।
सूचनां प्राप्य राजमार्गस्य, लोकनिर्माणविभागस्य कर्मचारिणां च दलं तत्स्थानं प्राप्य राजमार्गस्य, मार्गस्य च पुनर्स्थापनस्य कार्यं आरब्धवन्तः। तस्मिन् एव काले प्रचण्डवृष्ट्या वृक्षाणां पतनेन, विद्युत्परिवर्तकदाहेन च दशकशः ग्रामाः अन्धकारे एव अवशिष्टाः आसन्। इदानीं उपायुक्तः चम्बा मुकेशरैप्सवालः अवदत् यत् मार्गात् बहिः गतानां सेवानां पुनर्स्थापनार्थं दलानि कार्यम् आरब्धवन्तः। शीघ्रमेव व्यवस्थाः सुचारुरूपेण भविष्यन्ति।