सैन्यसम्मानेन हुतात्मन: जसबीरसिंहस्य अन्त्येष्टिसंस्कारः
हिमसंस्कृतवार्ता- ज्वाली।
फतेहपुर-उपमण्डलस्य पंचायत लरहुं-इत्यस्य २८ वर्षीयस्य जसबीरसिंहस्य पार्थिवशरीरं स्वग्रामं प्राप्तमात्रेण सम्पूर्णे पंचायते शोकस्य लहरः प्रवहति स्म, परिवारजनानां रोदनसमये दुर्गतिः अभवत्। सैनिकस्य शरीरं गृहं प्राप्तमात्रेण केवलं क्रन्दनम् एव श्रूयते स्म। सैनिकस्य मृतशरीरं दृष्ट्वा माता कटुतया रोदिति स्म, कन्याद्वयमपि पितुः मृतशरीरं पश्यन्तौ आस्ताम्। पत्नी शालुः अपि अन्तिमस्थानं प्राप्य बहु रोदिति स्म। एतस्मिन् समये एकं सेनादलं सैनिकस्य अभिवादनं कृतवान्। रविवासरे परोलस्य अन्तिमस्थाने पूर्णसैन्यसम्मानेन अन्तिमसंस्कारः कृतः। सैनिकस्य अग्रजः मुखाग्नि: अददत्। प्रशासनस्य पक्षत: पुलिसचौकी रैहनस्य दलं, फतेहपुरस्य नायबतहसीलदार: क्षेत्रस्य शतशः जनाः च सम्मिलिताः भूत्वा अश्रुपूर्णनेत्रेण सैनिकस्य अन्तिमयात्रायां भागं स्वीकृतवन्तः।