गोवानगरे महिलापदकक्रीडकैः सह प्रशिक्षकस्य दुर्व्यवहारं मन्त्रालयेन गम्भीरतापूर्वकं गृहीतम्- अनुरागठाकुरः
युवाकार्याणां क्रीडामन्त्री अनुरागसिंहठाकुरः अवदत् यत् गोवानगरे प्रचलिते भारतीयमहिलालीग इत्यस्य समये महिलापदकक्रीडकैः सह प्रशिक्षकस्य दुर्व्यवहारं मन्त्रालयेन गम्भीरतापूर्वकं गृहीतम्। सामाजिकमाध्यमेषु एकस्मिन् सन्देशमध्ये सः अवदत् यत् अखिलभारतीयफुटबॉलसङ्घः अस्मिन् विषये तत्कालं कार्यप्रक्रियां कर्तुं, फुटबॉलक्रीडकानां सुरक्षां च सुनिश्चितं कर्तुं निर्देशाः दत्ताः सन्ति । श्री ठाकुरः उक्तवान् यत् मन्त्रालयेन संघाय कठोरकार्यप्रक्रियां कृत्वा मन्त्रालयं सूचयितुं आह। श्री ठाकुरः क्रीडकानां सुरक्षा सर्वकारस्य सर्वोच्चप्राथमिकता इति बोधयति स्म।
गोवानगरे महिलापदकक्रीडकैः सह प्रशिक्षकस्य दुर्व्यवहारं मन्त्रालयेन गम्भीरतापूर्वकं गृहीतम्- अनुरागठाकुरः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment