HP Congress : सुलहत: पूर्वंविधायकस्य जगजीवनपालस्य आनीत: परासरामस्य च काङ्ग्रेसदले पुनः प्रत्यागमनम्, शीर्षनेतृत्वेन निलम्बनं निरस्तीकृतम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य काङ्गड़ामण्डलस्य सुलहत: पूर्वविधायकः जगजीवनपालः, आनीत: परासरामः च काङ्ग्रेसपक्षे पुनः आगतौ। लोकसभानिर्वाचनं, विधानसभा उपनिर्वाचनं च दृष्ट्वा एतयोः नेत्रो: निलम्बनं दलस्य शीर्षनेतृत्वेन निरस्तीकृतम् अस्ति। एतो नेतारौ २०२२ तमे वर्षे आयोजिते विधानसभानिर्वाचने दलस्य अधिकृतप्रत्याशिनां विरुद्धं प्रतिस्पर्धां कृतवन्तौ आस्ताम् । अस्य कारणात् एतौ षड्वर्षाणि यावत् दलात् निष्कासितौ । अधुना परिवर्तितानां परिस्थितीनां मध्ये काङ्ग्रेस-पक्षः सर्वकारस्य सुदृढीकरणाय पुनः दलस्य अन्तः गृहीतवान् अस्ति ।
अस्मिन् विषये राज्यकाङ्ग्रेसप्रभारी राजीवशुक्लेन शुक्रवासरे दलस्य प्रदेशाध्यक्षाय प्रतिभासिंहं प्रति पत्रं लिखितम् अस्ति। उभयो: नेत्रो: दलं प्रति प्रत्यागन्तुं निर्णयः अधुनैव चण्डीगढे आयोजितस्य राज्यानुशासनसमितेः अध्यक्षस्य अनुशंसया एव कृतः। अपरपक्षे काङ्ग्रेसविरुद्धं विद्रोहं कृत्वा स्वतन्त्रप्रत्याशीरूपेण विधानसभानिर्वाचनं प्रतिस्पर्धयन्तः अन्ये नेतारः अपि पुनरागमने विचारः आरब्धः अस्ति। एतेषु पूर्वविधानसभा अध्यक्षः गंगुराम मुसाफिरः, पूर्वविधायकः सुभाषमङ्गलेट् च सन्ति ।