भारतस्य निर्वाचन-प्रक्रियायाः देशस्य राजनैयिकाधिनियमानां विषये अन्यस्य कस्यापि देशस्य आरोपाः सर्वथा अस्वीकार्याः सन्ति- रणधीरजयसवालः
देहल्याः मुख्यमन्त्रिणः अरविन्दकेजरीवालस्य गृहीतविषये अमेरिकीविदेशविभागस्य अद्यतनं वक्तव्यं अनुचितं इति विदेशमन्त्रालयेन उक्तम्। मन्त्रालयस्य प्रवक्ता रणधीरजयसवालः गतदिने नवदिल्लीनगरे अवदत् यत् भारतस्य निर्वाचन-प्रक्रियायाः देशस्य राजनैयिकाधिनियमानां विषये अन्यस्य कस्यापि देशस्य आरोपाः सर्वथा अस्वीकार्याः सन्ति।
भारतेन परह्य अस्मिन् विषये अमेरिकीदूतावासस्य वरिष्ठाधिकारिणः आहूय प्रबलं आक्षेपं विरोधं च कृतम्। श्री जयसवालः उक्तवान् यत् भारते अधिनियमप्रक्रियाः विधिराज्यस्य अन्तर्गतं कार्यं कुर्वन्ति। विशेषतः समानप्रजातन्त्रव्यवस्थायुक्तेषु देशेषु एतत् तथ्यं स्वीकर्तुं कष्टं न भवेत्। श्री जयसवालः अवदत् यत् भारतं स्वतन्त्रेषु सशक्तेषु च लोकतान्त्रिकसंस्थासु गर्वितः अस्ति तथा च तेषां कस्यापि अनुचितबाह्यदबावानां रक्षणाय प्रतिबद्धः अस्ति।
श्री जयसवालः अवदत् यत् परस्परं सम्मानः अवगमनं च अन्तर्राष्ट्रीयसम्बन्धानां आधारः अस्ति तथा च एकेन देशेन अन्यदेशानां सार्वभौमत्वस्य आन्तरिककार्याणां च सम्मानः अपेक्षितः।
भारतस्य निर्वाचन-प्रक्रियायाः देशस्य राजनैयिकाधिनियमानां विषये अन्यस्य कस्यापि देशस्य आरोपाः सर्वथा अस्वीकार्याः सन्ति- रणधीरजयसवालः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment