जेईई-मेन्स् इत्यस्य द्वितीयं सत्रं अप्रैल-मासस्य ४ तः १२ पर्यन्तं ३१९ नगरेषु विभिन्नेषु केन्द्रेषु भविष्यति
अस्मिन् वर्षे संयुक्तप्रवेशपरीक्षायाः द्वितीयसत्रस्य अभ्यर्थिनः – JEE Mains इत्यस्य परीक्षाकेन्द्रस्य नगरविनियोगस्य विषये राष्ट्रियपरीक्षासंस्थायाः अग्रिमसूचना अधिसूचिता अस्ति। जेईई-मेन्स् इत्यस्य द्वितीयं सत्रं अप्रैल-मासस्य ४ तः १२ पर्यन्तं ३१९ नगरेषु विभिन्नेषु केन्द्रेषु भविष्यति। तेषु २२ नगराणि विदेशीयदेशेभ्यः सन्ति ।
प्रतिदिनं द्वयोः सत्रयोः परीक्षा भविष्यति। प्रथमं सत्रं प्रातः ९ वादनतः मध्याह्न १२ वादनपर्यन्तं द्वितीयसत्रम् अपराह्ण ३ वादनतः सायं ६ वादनपर्यन्तं भविष्यति। १२ एप्रिल दिनाङ्के परीक्षा प्रातःकाले एव भविष्यति। अभ्यर्थिनः एनटीए-जालस्थले स्वस्य आवेदनसङ्ख्यां जन्मतिथिं च प्रविष्ट्वा परीक्षाकेन्द्रस्य नगरस्य विषये सूचनां प्राप्तुं शक्नुवन्ति।
राष्ट्रियपरीक्षासंस्थया उक्तं यत् नगरस्य सूचनापत्रस्य उपयोगः अभ्यर्थिभिः प्रवेशपत्ररूपेण कर्तुं न शक्यते। एषा केवलं तस्य नगरस्य विषये अग्रिमसूचना भविष्यति यत्र तेषां परीक्षाकेन्द्रं भविष्यति।
जेईई-मेन्स् इत्यस्य द्वितीयं सत्रं अप्रैल-मासस्य ४ तः १२ पर्यन्तं ३१९ नगरेषु विभिन्नेषु केन्द्रेषु भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment