HP Election : सुधीरशर्मा सुखविन्दरसिंहसुक्खुं काङ्ग्रेसस्य अन्तिमः मुख्यमन्त्री इति अवदत्
हिमसंस्कृतवार्ता- धर्मशाला।
हिमाचलप्रदेशस्य राजनीतिषु प्रतिमास्थापनस्य महत्त्वं तस्मात् ज्ञातुं शक्यते यत् लोकनिर्माणमन्त्री विक्रमादित्यसिंहः स्वपितुः वीरभद्रसिंहस्य प्रतिमा न स्थापिता इति कारणेन त्यागपत्रं दातुं प्रस्तावम् अयच्छत्।
तदनन्तरं प्रतिमास्थापनविषये हिमाचलप्रदेशस्य राजनीतिषु भिन्नः राजनैतिकवर्णः दृष्टः । शनिवासरे (२३ मार्च) भारतीयजनतापक्षे सम्मिलितः सुधीरशर्मा प्रतिमास्थापनार्थम् अस्मिन् राजनैतिकयुद्धे नूतनं वस्तु योजितवान् अस्ति।
चण्डीगढे भाजपानेतु: राजेन्द्रराणावर्यस्य गृहे कार्यकर्तॄणां सम्मेलने सुधीरशर्मा मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: व्यंग्यं कृतवान्। सुधीरशर्मा इत्यनेन उक्तं यत् हिमाचलस्य निर्माता, राज्यस्य प्रथमः मुख्यमन्त्रिणा डॉ. यशवंतसिंहपरमारेण च सह हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुखु इत्यस्य प्रतिमा अपि स्थापनीया। डॉ. यशवन्तसिंहपरमारः हिमाचलप्रदेशस्य प्रथमः मुख्यमन्त्री अस्ति तथा च सुखविन्दरसिंहसुक्खुः इत्यस्य प्रतिमायाः अधः लिखितव्यं यत् सः काङ्ग्रेसस्य अन्तिमः मुख्यमन्त्री अस्ति।
*सुधीरशर्मा आजीवनं भाजपायां स्थातुं प्रतिज्ञां कृतवान्*
धर्मशालायाः पूर्वविधायकः सुधीरशर्मा काङ्ग्रेससर्वकारे एकमात्रः विधायकः आसीत् यः वीरभद्रसर्वकारे मन्त्रिमण्डलमन्त्री आसीत्, परन्तु मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः इत्यस्य नेतृत्वे सर्वकारे स्थानं न प्राप्तवान् । काङ्ग्रेसपक्षे स्थित्वा अपि सुधीरशर्मा सुखविन्दरसिंहसुक्खुसर्वकारस्य निर्णयानां मुक्तमञ्चात् मुक्ततया विरोधं कुर्वन् आसीत् । सामाजिकमाध्यमेषु अपि सुधीरशर्मा मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: ऊपरि निरन्तरं आक्रमणं कुर्वन् अस्ति।
अतः अधुना सुधीरशर्मा काङ्ग्रेस-पक्षं त्यक्त्वा भारतीयजनता-पक्षे सम्मिलितः अस्ति । भाजपायां सम्मेलनस्य अनन्तरं सुधीरशर्मा मुख्यमन्त्रिण: विरुद्धं घोर मौखिकप्रहारं कुर्वन् अस्ति। शनिवासरे दिल्लीनगरे भारतीयजनतापक्षे सम्मेलनस्य अनन्तरं शिमलानगरं गत्वा सुधीरशर्मा आजीवनं भाजपायां तिष्ठामि इति उक्तवान् आसीत्। मीडियाभि: सह वार्तालापस्य समये सः एतदपि अवदत् यत् सर्वकारः पूर्णतया असफलः अस्ति तथा च मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: नेतृत्वे सर्वकारेण सामान्यजनाः तप्ताः सन्ति।