Holi Festival : हिमाचले होली-उत्सवः- मुख्यमन्त्रिणा शिमलायां सर्वकारीये आवासे समर्थकै: सह मानित: होली- उत्सवः।
प्रतिभा-विक्रमादित्यः ओक-ओवरं प्राप्तवन्तौ
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशे होली-उत्सवः महता उल्लासेन आचरितः। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः स्वस्य आधिकारिकनिवासस्थाने ओकओवर इत्यत्र समागतैः समर्थकैः सह होलीक्रीडां नृत्यं च कृतवान्। एतस्मिन् समये मुख्यमन्त्री राज्यस्य जनेभ्य: होली-दिवसस्य शुभकामना: अददत्। सः अवदत् यत् एषः उत्सवः वर्णानाम्, उत्साहस्य, प्रेम्ण: च अस्ति। तथा च निश्चितरूपेण हिमाचलप्रदेशे आगमिष्यमाणः समयः वर्णानाम्, प्रेम्णः, समृद्धेः, आत्मनिर्भरतायाः च समयः भविष्यति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः प्रदेशकाँग्रेसस्य अध्यक्षा प्रतिभासिंह एवं लोकनिर्माणमंत्री विक्रमादित्यसिंह: इत्येताभ्यां सह होली-उत्सवः आचरितवान्। सर्वे वर्णं प्रयोज्य परस्परं अभिनन्दनं कृतवन्तः। एतस्मिन् समये हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः अवदत् यत् किमपि घटितम्, अधुना सर्वकारः कार्यं कुर्वन् अस्ति, राज्यस्य भविष्ये एव ध्यानं दद्मः।
होली वर्णानाम्, उत्साहस्य, प्रेम्ण: च उत्सवः अस्ति
होली-उत्सवे सुक्खु-सर्वकारस्य मन्त्रिणः अपि उपस्थिताः आसन्। अस्मिन् काले बहुसंख्याकाः जनाः ओक-ओवरं प्राप्य मुख्यमन्त्रिणे: शुभकामना: अददन्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् अस्माभिः राज्यस्य कृते यत् आधारं स्थापितं तत् २०२७ तमवर्षपर्यन्तं हिमाचलं स्वनिर्भरं करिष्यति। तदनन्तरं २०३२ तमवर्षपर्यन्तं हिमाचलं देशस्य समृद्धतमं सम्पन्नं च राज्यं भविष्यति। अस्मिन् दिशि राज्यसर्वकारः निरन्तरं प्रयत्नान् कुर्वन् अस्ति। प्रतिभासिंह विक्रमादित्यः अपि ओक ओवरं प्राप्तवन्तौ। होलीपवित्रपर्वणि काङ्ग्रेसप्रमुखा प्रतिभासिंहः लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अपि शिमलायां ओकओवरं गत्वा मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह होलीम् आचरितवन्तौ। प्रतिभासिंह, विक्रमादित्यसिंहः च राज्यस्य जनानां कृते वर्णाणां पर्व होली इत्यस्य शुभकामनाम् अपि दत्तवन्तौ। सुक्खुसर्वकारस्य लोकनिर्माणमंत्री विक्रमादित्यसिंहस्य च मध्ये यः आक्रोशः किञ्चित्कालं यावत् प्रचलति स्म। अद्य होल्याः वर्णाः तत् धूमिलं कृतवन्तः। होलीपर्वणि प्रतिभासिंह विक्रमादित्यसिंह: च सर्वान् मतभेदान् विस्मृत्य मुख्यमन्त्रिण: निवासस्थाने होली-उत्सवे भागं गृहीतवन्तौ।
शीघ्रं भविष्यति प्रत्याशीनां घोषणा
मुख्यमंत्री अवदत् यत् २०३२ तमवर्षपर्यन्तं हिमाचलप्रदेशं सर्वाधिकसमृद्धं राज्यं कर्त्तव्यम्। जनाः सर्वं जानन्ति। एतस्मिन् समये सुक्खुः महत् वचनं कृतवान्। लोकसभाया: चतुर्षु आसनेषु नूतनाः अभ्यर्थिनः घोषिताः भविष्यन्ति इति सः अवदत्। एतेषां सूची शीघ्रमेव प्रकाशिता भविष्यति। दलस्य कर्मठः निष्ठावान् कार्यकर्ता नामपत्रं प्राप्स्यति।
राजभवनं गत्वा राज्यपालाय प्रदत्ता: शुभकामना:
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः होली-उत्सवस्य अवसरे राजभवनं गत्वा राज्यपालाय शिवप्रतापशुक्लावर्याय शुभकामना: अददत्। सर्वे परस्परं वर्णान् प्रयोज्य होली-उत्सवम् आचरितवन्त:।