हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:
हिमसंस्कृतवार्ता- डॉ मनोज शैल:।
हिमाचलगौरवपुरस्कारेण अन्यैः अनेकैः पुरस्कारैः च सम्मानितः सोलनजनपदस्य अन्दरोलीग्रामनिवासी प्रसिद्धलेखकः नेमचन्दठाकुरः साहित्यक्षेत्रे परिचयस्य आवश्यकतां न अनुभवति। हिन्दी, आङ्ग्लं, पंजाबी, उर्दू, पहाड़ी आदि भाषाणां वेत्तु: लेखकस्य पुष्पस्तवक: (गुलदस्ता) काव्यसंग्रह:, हिमाचलप्रदेशस्य इतिहास:, कला, संस्कृति: एवं प्रशासनं भारतस्य इतिहास: (सहलेखनम्) भटकु (कथासंग्रह:), हिमालयी-इतिहास: संस्कृते: पुरोधा : ओ. सी. हाण्डा,
सोलनजनपद:- ऐतिहासिकं सांस्कृतिकं च परिदृश्यम् इत्यादय: कृतयः पाठकैः पूर्वमेव प्रशंसिताः सन्ति।
तस्य सम्पादकत्वे साहित्यसंस्थानात् गाजियाबादतः सद्यः प्रकाशितः ७५ पारं लघुकथासंग्रहः पाठकेभ्य: बहु रोचते।
अस्मिन् कथासङ्ग्रहे हिमाचलप्रदेशस्य पञ्चदशप्रसिद्धकथाकाराणां प्रतिनिधित्वकथाः समाविष्टाः सन्ति ये जीवनस्य ७५ वा अधिकानि ऋतूनि दृष्टवन्तः। ७५ पारकथासञ्चयः सम्पादकस्य मते हिमाचलप्रदेशकथाविधायाः प्रसिद्धहस्ताक्षरस्य स्वर्गीयस्य बद्रीसिंहभाटियायाः अमूल्यानां परामर्शानां कार्यान्वयनार्थं यः प्रयासः कृतः सः तस्य मानसिकपुत्रः इति वक्तुं शक्यते। कथासङ्ग्रहे समाविष्टस्य प्रत्येकं कथाकारस्य प्रथमप्रकाशितकथां समावेश्य अस्य पुस्तकस्य द्वितीयखण्डे पाठकानां कृते उपलब्धं करणस्य सम्भावनाः अपि भविष्ये अन्वेषिताः भविष्यन्ति येन ते कथाविधायाः तुलनात्मकम् अध्ययनं कर्तुं शक्नुवन्ति। अस्मिन् संकलने श्रीनिवास: जोशी, जयदेव विद्रोही, सुशीलकुमार फुल्ल:, आशा शैली, बद्रीसिंह: भाटिया, सुदर्शन: प्रियदर्शिनी, योगेश्वर: शर्मा, रमेशचंद्र: शर्मा, डॉ. पीयूष गुलेरी, डॉ. गौतमशर्मा ‘व्याथित:’, कृष्णकुमार: ‘नूतन:’, नरबीर लाम्बा, डॉ. सत्यपाल शर्मा, साधुराम: ‘दर्शक:’, गंगाराम राजी आदीनां अग्रगामीणां हस्ताक्षराणां कथा: समाविष्टा: सन्ति। अस्मिन् कथासंग्रहे एक आवाज की प्रतीक्षारत, आत्महत्या, दण्डकीला, फिज़ीकल अनफिट, सांझ की प्रतीक्षा में, आर न पार, बसांव, भावनाओं की चकाचौंध, महाफ्रॉड, दर्द सृजन का, नये गान्धी की तलाश में, सास भी कभी बहु थी, माता के भक्त, प्रदूषण, दशरथ मरेगा तो राम राज्य आएगा, इत्यादय: प्रसिद्धा: कथा: कथाः गृहीताः। सोलनवास्तव्य: वरिष्ठसाहित्यकारस्य व्यङ्ग्यकारस्य च अशोकगौतमस्य मते उपर्युक्तकथानां माध्यमेन गमनम् अत्रत्यानां जनानां जीवनं गमनमिव भवति। अस्मिन् कथासङ्ग्रहे मुक्ततया संकलिताः कथाः निर्मातॄणां प्रौढकथाकथनकलानां निश्चयः एव। हिमाचलस्य बिलासपुरस्य समीक्षक: रविकुमार: इत्यस्य मते कथासंकलने एतादृशाः उत्तमाः कथाः पाठकानां कृते समाविष्टाः एतदर्थं सर्वे लेखकाः, सम्पादकाः, प्रकाशकाः च अभिनन्दनार्हा: सन्ति।