होली
-डॉ नरेन्द्रराणा सिरमौर:
अद्य सम्पूर्ण-देशे विदेशे च होलीपर्व मान्यते। आदौ हिमसंस्कृतवार्तापरिवारपक्षत: समेषां कृते होलीपर्वणः हार्दिक्य: शुभकामना:।
होलीपर्व वर्णानाम् उत्सवः अस्ति। अयं भारतस्य प्रमुखः प्रसिद्धः च उत्सवः अस्ति, यः अद्यत्वे सम्पूर्णे विश्वे आचर्यते। अयम् उत्सवः वर्णपर्व इति नाम्ना परम्परागतरूपेण द्वौ दिवसौ आचर्यते। मुख्यतया भारते नेपाले च अयम् उत्सवः आचर्यते। अन्येषु बहुषु देशेषु अपि अयम् उत्सवः हर्षोल्लासेन आचर्यते यत्र अल्पसंख्याकाः हिन्दूजनाः निवसन्ति। होलीदिने जनाः पुरातनीं कटुतां विस्मृत्य आलिंगनं कृत्वा पुनः मित्रतां प्राप्नुवन्ति इति विश्वासः अस्ति। परस्परं वर्णयितुं गीतनृत्यादि उल्लास: मध्याह्नपर्यन्तं प्रचलति। तदनन्तरं स्नानविश्रामं कृत्वा नववस्त्रं धारयित्वा सायंकाले जनाः परस्परं गृहं गत्वा आलिंगनं कृत्वा मिष्टान्नं भोजयन्ति।
होलीपर्व भारतस्य अतीव प्राचीनः उत्सवः अस्ति यः होली, होलिका च इति नाम्ना आचर्यते स्म। वसन्तऋतौ उत्साहेन आचर्यते इति कारणतः वसन्तोत्सवः काममहोत्सवः च इति अपि कथ्यते।
प्रह्लादस्य कथा
अनेकाः कथाः होलीपर्वणा सह सम्बद्धाः सन्ति। तेषु प्रह्लादस्य कथा प्रसिद्धा वर्तते। प्राचीनकाले हिरण्यकशिपुः नाम अतीव शक्तिशाली राक्षसः आसीत्। बलस्य अहंकारेण सः आत्मानम् ईश्वरं मन्यते स्म। सः स्वराज्ये ईश्वरस्य नामग्रहणं प्रतिषिद्धवान् आसीत्। हिरण्यकशिपो: पुत्र: प्रह्लादः ईश्वरभक्तः आसीत्। प्रह्लादस्य ईश्वरभक्त्या क्रुद्धः हिरण्यकशिपुः तस्मै अनेकानि कठोरदण्डानि दत्तवान्, परन्तु सः ईश्वरभक्तिमार्गं न त्यक्तवान्। हिरण्यकशिपुभगिन्याः होलिकायाः वरः आसीत् यत् सा अग्निना भक्षितुं न शक्नोति। हिरण्यकशिपुः आज्ञापयत् यत् होलिकां प्रह्लादं अङ्के कृत्वा अग्नौ उपविशतु। अग्नौ उपविश्य होलिका दग्धा अभवत्, परन्तु प्रह्लादः जीवितः अभवत्। अस्मिन् दिने ईश्वरभक्तप्रह्लादस्य स्मृतौ होली प्रज्वलिता भवति। प्रतीकात्मकरूपेण प्रह्लादस्य अर्थः आनन्दः इति अपि मन्यते। वैरस्य, उत्पीडनस्य च प्रतीकं होलिका (अग्निदारु) दहति, प्रेम-आनन्दस्य च प्रतीकं प्रह्लादः (आनन्दः) अक्षुण्णः एव तिष्ठति।