षट् काङ्ग्रेसविद्रोहिणः, त्रयः निर्दलीयाः च विधायका: भाजपायां सम्मिलिताः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
केन्द्रीयमंत्रिण: अनुरागठाकुरस्य, नेताप्रतिपक्षस्य जयरामठाकुरस्य, भाजपादलस्य प्रदेशाध्यक्षस्य डॉ. राजीवबिन्दलस्य उपस्थितौ राजेन्द्र राणा, सुधीर शर्मा, रविठाकुर:, इन्द्रदत्तलखनपाल:, देवेन्द्र: भुट्टो, चैतन्य: शर्मा इत्यादयः षट् काङ्ग्रेसविद्रोहिणः विधायका: भाजपायां सम्मिलिताः ।
तत्रैव त्रयः निर्दलीयाः अपि भाजपायां सम्मिलिताः सन्ति । गुरुवासरे सायं एतेषां अयोग्यविधायकानां भाजपा शीर्षनेतृत्वेन सह समागमे एतत् सहमतिः अभवत् इति कथ्यते। समागमे राज्यसभासांसद: हर्षमहाजन: भाजपादलस्य प्रदेशाध्यक्ष: डॉ राजीवबिंदल: अपि उपस्थिता आसन्।विधायकाः राजेन्द्रराणाम् भाजपादलेन सह वार्तालापं कर्तुं अधिकृतवन्तः।
दलस्रोतानां अनुसारं सर्वोच्चन्यायालये अयोग्यविधायकानां याचिकायाः निवृत्तेः, भाजपायाः सदस्यतायाः, भविष्यस्य राजनीतिविषये च गहनचर्चा अभवत्। पार्टीसूत्राणां अनुसारं भाजपा शीघ्रमेव काङ्गड़ा-मण्डी-लोकसभानिर्वाचनयोः षट्, विधानसभा उपनिर्वाचनयोः षट् प्रत्याशिन: च घोषयितुं शक्नोति। अस्य विषये राजेन्द्र राणा उक्तवान् यत् भाजपा राष्ट्रियाध्यक्ष जेपी नड्डा इत्यनेन सह मिलित्वा सर्वं निर्णयः अभवत्। विधानसभा अध्यक्षस्य निर्णयस्य विरुद्धं सर्वोच्चन्यायालये प्रवेशिताया: याचिकायाः निवृत्तौ वैधानिकी बाधा नास्ति। जयराम ठाकुरः निर्दलीयैः सह नवदिल्लीं गतः आसीत् । सूचनानुसारं षट् काङ्ग्रेसविद्रोहिणः त्रयः स्वतन्त्राः विधायकाः च पीटरहोफ शिमलां सायं पर्यन्तम् आगमिष्यन्ति।
षट् काङ्ग्रेसविद्रोहिणः, त्रयः निर्दलीयाः च विधायका: भाजपायां सम्मिलिताः
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment