सर्वोच्चन्यायालयतः शालिनी अग्निहोत्री इत्यस्यै महदाश्रय:, स्थास्यति काङ्गड़ाया: पुलिसाधीक्षकपदे
सप्ताहत्रयानन्तरं पुनः श्रवणं भविष्यति
हिमसंस्कृतवार्ता- धर्मशाला।
काङ्गड़ा जिलापुलिस-अधीक्षक शालिनी अग्निहोत्री इत्यस्यै सर्वोच्चन्यायालयात् महदाश्रय: प्राप्त: । सा काङ्गड़ाजनपदस्य पुलिसाधीक्षकपदे सतत् स्थास्यति। न्यायालयः सप्ताहत्रयानन्तरं पुनः तस्य श्रवणं करिष्यति। गुरुवासरे सर्वोच्चन्यायालयात् काङ्गड़ाजनपदस्य पुलिसाधीक्षकस्य कृते शुभसमाचारः आगतः। परन्तु न्यायालयस्य सामान्यप्रक्रिया एषा एव । अद्यापि न्यायालये प्रकरणं प्रचलति।
निशांतकुमारः अग्निहोत्रीविरुद्धं उपालम्भं कृतवान् अस्ति
कथ्यते यत् पालमपुरस्य व्यावसायी निशांतकुमारशर्मा राज्यस्य पुलिसमहानिदेशकस्य (डीजीपी) संजयकुण्डो: काङ्गड़ाजनपदस्य पुलिसाधीक्षिका शालिनी अग्निहोत्री च इत्यस्या: विरुद्धं उपालम्भं दत्तवान्। यस्मिन् प्राथमिकी (एफआईआर) पञ्जीकरणे ज्ञात्वैव विलम्बं कृत्वा एसपी काङ्गड़ारूपेण स्वस्य कर्तव्यस्य उपेक्षायाः आरोपाः सन्ति।
उभयो: अधिकारिणो: पदात् निष्कासनस्य आग्रहः
तत्रैव इदानीं व्यावसायी निर्वाचन-आयोगात् एतयोः अधिकारिणो: पदात् निष्कासयितुं आग्रहं कृतवान् अस्ति। यस्मिन् सः उक्तवान् यत् हिमाचलप्रदेशस्य उच्चन्यायालये अन्वेषणसंस्थाभिः प्रविशिता स्थितिप्रतिवेदना, राज्यस्य उच्चन्यायालयस्य अवलोकनेन च तेषु अपराधेषु संजयकुण्डुः संलग्नः इति ज्ञायते।
यस्मिन् सचेतना, शारीरिक-उत्पीडनं च अन्तर्भवति तथा च सः स्वस्य आधिकारिकपदस्य दुरुपयोगं अपि कृतवान् अस्ति। अतः मुख्यनिर्वाचनायुक्तेन एतयोः अधिकारिणयोः पदात् तत्क्षणं मुक्तं करणीयौ।