राजनैतिके द्वन्द्वे त्रिभि: निर्दलीयविधायकै: विधानसभां प्राप्य त्यागपत्रं दत्तम्
हिमसंस्कृतवार्ता- शिमला।
राजनैतिक-अशान्ति-मध्ये हिमाचल-प्रदेशस्य त्रयः स्वतन्त्राः विधायकाः शुक्रवासरे राज्यसभां प्राप्य त्यागपत्रम् अयच्छन्। निर्दलीयविधायकाः के.एल.ठाकुरः, होशियारसिंहः, आशीषशर्मा च विधानसभासचिवं प्रति त्यागपत्रं प्रदत्तवन्तः। अनेन सह त्रयाणां स्वतन्त्रविधायकानां त्यागपत्रेण राज्यस्य राजनीतिषु नूतनानां समीकरणानां निर्माणस्य सम्भावना वर्तते। एतेषां विधायकानां त्यागपत्रेण रिक्तेषु विधानसभासनेषु पुनः निर्वाचनं भविष्यति। अधुना आहत्य नव विधानसभासीउनानां कृते उपनिर्वाचनं निर्धारितम् अस्ति। स्वतन्त्रविधायकानां मते सः स्वक्षेत्रस्य जनानां हिताय त्यागपत्रं अददन् । भाजपातः विधानसभा उपनिर्वाचनं प्रतिस्पर्धयिष्याम: इति उक्तवन्त:। नामपत्राणां निर्णयः शीघ्रमेव भाजपाद्वारा भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशः अग्रे गच्छति। अतः तस्य नेतृत्वे अस्माकं पूर्ण: विश्वास: अस्ति इति ते अवदन्